________________ 22] आत्मख्यातिः वासनाधीनानतिशयितशमादिना प्रवृत्त्युत्तरमतिशयितशमादिसंपत्तिसंभवात् , शमादिसंपन्नत्वेनाधिकारित्वेऽप्यन्योन्याश्रयाभावाच्च / ___किंच, सर्वमुक्त्युपगमे प्रतिकल्पमेकैकस्यापि मुक्तावनन्तकल्पविगमेऽनन्तजीवानां मुक्ताविदानी संसारोच्छेदप्रसंगः। ननु कृतमेव तत्राचार्यः समाधान, सत्यमनन्ता एवापवृक्ता न तु सर्वे, संप्रति संसारस्यानुभविकत्वादितीति चेत् , सत्यं कृतमेव, न तु सम्यग्विचार्य कृतं, कालानन्त्यसंख्यातो जीवानन्त्यसंख्याया अतिशयिताया अनभ्युपगमे दृष्टबाधाया एवोद्धर्तुमशक्यत्वात् / तदुपगमश्च न परार्धपर्यन्तसंख्यावादिनां मिथ्या समसंख्यातानन्तादिविभागस्य जिनशासन एव सिद्धत्वात् / किं च, प्रथमसृष्टेः पूर्व शरीराद्यधीनादृष्टाभावेऽपि यथात्मनां भगवदिच्छामात्रेण स्वन्मते शरीरेन्द्रियादिसंपर्कस्तथा महाप्रलयानन्तरमपि कथं न तत्संभवः ? प्रथममुक्तस्येवानन्तरमुक्तस्यापि भोगादेर्भगवतैव संपादयितुं शक्यत्वात् / कालानादित्वात् सृष्टिप्रलयधारा प्रवाहतोऽनादिरेवेष्यत इति चेत् , तर्हि कालानन्तत्वेन साऽनन्ताप्येष्टव्येति दत्तो महाप्रलयाय जलाञ्जलिः / किं च महाप्रलये हेतुरपि दुर्वचः। न चेश्वरप्रयत्नवदात्मसंयोगजैरणुकर्मभिर्विभागद्वारा शरीरेन्द्रियारम्भकाणुसंयोगध्वंसे तेषां परमाण्वन्तो विनाशः, तथैव पृथिव्यादेः, चरमद्वयणुकनाशानुगुणपरमाणुक्रियाया जन्यद्रव्यरूपोत्तरदेशसंयोगात् / अस्य चाश्रयनाशाच्चरमादृष्टस्य चरमभोगादिति क्लप्तनाशकादेव सर्वनाशे महाप्रलयोत्पत्तिसंभव इति वाच्यम् , तत् क्रिया गणनादिनापि परमाणुसंयोगजननसंभवेन तत्संयोगनाशानुपपत्तेः / अथान्यस्य क्लप्तनाशकादेव नाशः परमाण्वाकाशादिसंयोगचरमदुःखसाक्षात्कारजनकात्ममनोयोगनाश एव च चरमादृष्टनाशे हेतुः / वस्तुतो युगपदेव तत्कालीननिखिलकार्यनाशे चरमभोगनाश्यादृष्टनाश एव हेतुः / इत्थं हि चरमदेशानां नाशस्यैक्याल्लाघवमपि। न च दिनियमाय स्वाश्रयनाशहेतुत्वमावश्यकं, तत्तत्प्रतियोगिहेतुत्वेनापि तन्नियमोपपत्तेः। भिन्नदिक्कालानामप्येकनाशस्वीकारे तदा प्रतीत्यादिविरोधसंभावनाभावाच्चेति चेत् --न, भोगेऽदृष्टनाशे च चरमत्वस्यैवासिद्धेः, सिद्धौ वा सर्वात्मनां तद्योगपद्ये नियामकं वाच्यम् / खण्डप्रलयनिमित्तादृष्टेन युगपदखिलात्मशरीरेन्द्रियादिनिमित्तादृष्टवृत्त्यनुबोधवद् युगपदखिलात्मचरमभोगचरमादृष्टनाशहेतुमहाप्रलयनिमित्तादृष्टस्य स्वीकर्तुमशक्यत्वात् , स्वभावस्यैव नियामकत्वे च गतमीश्वरादिनापि / ईश्वरेच्छायाश्च हेतुत्वं तत्तत्सामग्रीघटितत्वेनात्माश्रयादिदोषग्रस्तम् / तत्कालावच्छिन्नतद्देशावच्छिन्नविशेषणतया तद्धेतुत्वमप्येककारणपरिशेषादिकलंकितमिति न किंचिदेतत् / तस्मादनाद्यनन्तमेव जगत् / संसारिणश्च सतः सशरीरत्वमेव सशरीरस्य कथंचिन्मूर्तत्वमेवेति व्यवस्थितम् /