________________ आत्मनः शरीरपरिमाणत्वम् [21 प्रवर्तयतीति वाच्यम् , शरीरत्वावच्छिन्नेऽदृष्टस्य हेतुत्वेनेश्वरादृष्टं विनेश्वरशरीरस्यैवानुत्पत्तेः / तदधीनोपदेशाद्यभावे न तेन व्यवहारस्य प्रवर्तयितुमशक्यत्वात् / न च चैत्रादृष्टान्मैत्रशरीरानुत्पत्त्या तदीयशरीरे तदीयादृष्टस्य विशिष्य हेतुत्वादीश्वरशरीरस्यादृष्टं विनाप्युत्पत्तौ न दोष इति वाच्यम् , तदीयतानिरूपकत्वसंबन्धेनात्मनिष्ठतया शरीरोत्पत्तावदृष्टस्य समवायेन सामान्यत एव हेतुत्वात् / एतेन भूतावेशन्यायादीश्वरस्य तत्तच्छरीरपरिग्रह इत्यपि निरस्तम्, भूतावेशस्यापि चैत्राद्यदृष्टोत्पा. दितंशरीरे स्वादृष्टाधीनस्वात्मप्रदेशानुप्रवेशं विनानुपपत्तेः, जगददृष्टेन भगवच्छरीरोत्पत्तिरिति तु वालिशभाषितं तेन मुक्तशरीरोत्पत्तेरपि वक्तुं शक्यत्वात् / ___किं च, प्रलयोत्तरसगै भगवत्सिसृक्षाया अपि परेण हेतुत्वं वाच्यम् , सिसृक्षा च सर्गसामग्रीसमवहितत्वविशिष्टेच्छेति मिश्रः प्रतिपादितम् , सामग्रीत्वं च नैकमिति सर्गाद्यघटोत्पत्तेः स्वसामग्रीसमव. हितत्वविशिष्टेश्वरेच्छाघटितस्वसामग्रयव्यवहितोत्तरक्षणत्वं व्याप्यं वाच्यमिति महागौरवम् , तद्वरं घटसामग्रीत्वेनैव घटोत्पत्तिव्याप्यतया कालत्वस्य चघटसामग्रीव्याप्यतयाऽनन्तस्रष्ट्र संहर्तशरीरादिकल्पनागौरवकलंकप्रस्तानन्तसर्गप्रलयाद्यकल्पनमेव / एतेन महाप्रलयोऽपि सुतरां निरस्तस्तत्र मानाभावात् / न च सर्वमुक्तौ सर्वात्पत्तिमन्निमित्तस्यादृष्टस्यापायात् सर्वभोक्तृप्रवृत्तौ प्रयोजनाभावाच्च न तदनन्तरं सृष्टिरस्ति / न हि बीजप्रयोजनाभ्यां विना कार्योत्पत्तिरित्यर्थान्महाप्रलयसिद्धिरिति वाच्यम् , सर्वमुक्तावेव मानाभावात् / सर्षमुक्तिनिषेधः . *तर्हि संसार्येकस्वभावा एव केचिदात्मान इति स्थितेऽहमपि यदि तथा स्यां तदा मम विफलं पारिव्रज्यमिति शङ्कया ब्रह्मचर्यादौ कश्चिदपि न प्रवर्ततेति विपक्षबाधकतर्कसहकृतदुःखसन्ततित्यन्तमुच्छिद्यते सन्ततित्वात्प्रदीपसन्ततिवदित्यनुमानमेव सर्वमुक्तिसाधकमिति चेत्न , सन्ततिः खल्वेकजातीयमनेक वस्तु, तत्रैकजात्यं यदि सत्वादिना तदा मनसा व्यभिचारात् , यदि च गुणत्वदुःखत्वादिना तदा दृष्टान्ते साधनवैकल्यात् , अयोग्यत्वशङ्कानिवृत्तेस्तु स्वव्याप्यभव्यत्वशङ्कामूलभव्यत्वनिश्चयादेव संभवेनोक्तयुक्तेर्निर्मूलत्वात् / एतेन शमदमभोगानभिष्वंङ्गादिना मुमुक्षुचिहेन श्रुत्युदितेन न तच्छानिवृत्तिः, संसारित्वेनैव मोक्षं प्रति स्वरूपयोग्यत्वाच्छमादावपि संसारित्वेनैव हेतुत्वाच्चेति वर्धमानोक्तमप्यपास्तम् , संसारित्वस्य नित्यज्ञानादिमद्भिन्नात्मत्वरूपस्य नानात्वाद्गुरुत्वाच्च, लाघवाद्भव्यत्वस्यैव मुक्तिशमादिस्वरूपयोग्यतावच्छेदकत्वकल्पनात् / एतेन समादेः श्रुतौ सहकारित्वेन बोधनान्न स्वरूपयोग्यतावच्छेदकत्वं . शमादिसंपन्नत्वेन च न मोक्षाधिकारिता, श्रुतिसंकोचापत्तेः / शमादिसंपत्तेरधिकारनिश्चयस्ततश्च तदर्थप्रवृत्तौ शमादिसंपतिरि. युक्तावपि न क्षतिः, भव्यत्वस्यैव स्वरूपयोग्यतावच्छेदकत्वाधिकारिविशेषणत्वसंभवात् , भवान्तरीय