________________ 20] आत्मख्यातिः स्थूलशरीरनाशस्यानात्यन्तिकत्वेनाकाम्यत्वात् / अपि च "अशरीरं वा वसन्त, प्रियाप्रिये न स्पृशत" इति श्रुतिरेवात्मनः शरीरसम्बन्धाभावस्य कालिके न सुखदुःखप्रागभावाभावव्याप्यत्वमवगाहमाना संसारावस्थायां सदा शरीरसम्बन्धसाक्षिणी / एतेन खण्डप्रलये शरीरसम्बन्धाभाववतामेवात्मनां सर्गादावुबुद्धवृत्तिकेनादृष्टेन जनितस्य शरीरस्य पुनः सम्बन्ध इति नैयायिकादिमतमपास्तम् / ___ अशरीरस्यादृष्टसम्बन्धे मानाभावात् , अन्यथा मुक्तावपि तत्प्रसंगात् / इण्यत एव शिरोमणिमतानुयायिभिर्मुक्तावप्यदृष्टं, तन्मते मोक्षस्यानुच्छिद्यमानसुखधारास्वरूपत्वात् / तस्याश्च विनश्यदवस्थमिथ्याज्ञानवासनासहकृततत्त्वज्ञानजनितादृष्टधारयैवोपपत्तेः / तस्याश्च न क्षणिकत्वं मिथ्याज्ञानवासनानाशनाश्यतावच्छेदकोटौ प्रारब्धेतरत्वत्तत्तददृष्टेतरत्वस्यापि दानादिति चेत्–न, तन्मतस्यात्यन्तनियुक्तिकत्वात् , मुक्तौ नानादृष्टजन्यनानासुखाभ्युपगमे तद्वैचित्र्यप्रसंगात् / किंचैवं वैषयिकमपि सुखं मुक्तौ प्रसज्येतादृष्टस्येव विषयाणामपि सुखे हेतुत्वावधारणात् / विषयजन्यतावच्छेदकजातिभिन्नैव जातिर्मुक्तिसुखे स्वीक्रियत इति चेत्राहि तस्याऽदृष्टजन्यतावच्छेदकजातिभिन्नत्वस्वीकारे किं वश्छिद्यते / एवं हि नानादृष्टादिकल्पनागौरवमपि परिहृतं भवति / तस्मान्नाशरीरस्यादृष्टम् / प्रलयनिरासः . प्रलयेऽपि मानाभावोऽहोरात्रत्वस्याव्यवहिताहोरात्रपूर्वकत्वव्याप्यत्वात् / न चात्राव्यवहितसंसारपूर्वकत्वमुपाधिर्यथा वर्षादिनत्वेनाव्यवहितवर्षादिनपूर्वकत्वे साध्ये राशिविशेषावच्छिन्नरविपूर्वकत्वमुपाधिः, पक्ष एव साधनाव्यापकत्वेन, अस्य पक्षेतरतुल्यत्वाच्च / कालत्वस्य भोगव्याप्यत्वाच्च भोगरहितकाले न मानमस्ति, न हि कर्मणां विषमविपाकतया सर्वेषां युगपन्निरोधः संभवी। न च सुषुप्तिकाले कतिपयादृष्टनिरोधवत्कदाचित्समस्तादृष्टस्य निरोधस्यापि नानुपपचिरिति वाच्यम् , एकस्य सुषुप्तावप्यन्यस्य सुषुप्त्यभावात् , एकस्य समस्तादृष्टनिरोधेऽपि सर्वस्य तदसंभवात् , कतिपयसमस्तादृष्टनिरोधयोः स्वस्वदोषगुणविशेषप्रयोज्यत्वात् , कालविशेषस्य कालविपाकिकर्मोदये सहकारित्वेऽपि स्वस्वपरिणामस्य सर्वत्र प्रधानकारणत्वात् / किं च, प्रलय इति षष्ठारकस्यैव नाम, सर्वथा बीजाभावे पुनर्मनुष्याद्यनुत्पत्तिप्रसंगात् , अदृष्टविशेषमनुष्यजन्यतावच्छेदकमनुष्यनिष्ठजातिभेदकल्पने च महागौरवम् / अदृष्टे पापपुण्यरूपे सांकर्यात्तद्गतजातिरूपविशेषासिद्धेश्च / किं च प्रलये बीजाभावे आद्यप्रवर्तकपुरुषानुत्पत्त्या युगादौ संकेतप्राहकाभावाच्छाब्द. व्यवहारानुपपत्तिः, घटादिनिर्माणनैपुण्यादर्शनाद् घटादिसंप्रदायोच्छेदश्च / न च तदेश्वर एव प्रयोज्यप्रयोजकवृद्धीमय संकेतं प्राहयति, स एव च कुलालादिशरीरं परिगृह्य घटादिसंप्रदाय