________________ आत्मनः शरीरपरिमाणत्वम् / 19 इतीदानी न बाल इत्यस्य बालश्वविशिष्टवृत्तिमद्भिन्नैतत्कालीनधर्मवानित्यर्थः, युक्तं चैतन्न पृथगिति प्रतीतेस्तदवधिक पृथक्त्वाभाववद्र्व्यत्वेन तदन्योन्याभावाभावसिद्धेः, तदाहुायाचार्याः __'श्यामाद्रक्तो विधर्मा न तु पृथग' इति चेत् - न, प्राङ् न बाल इत्यस्याप्यापत्तेः, बाल्यकालावच्छेदेन बालवृत्तियों धर्मस्तद्भिन्नस्य सत्त्वादेः प्राक्कालवृत्ते यूनि सत्त्वात् , ईदृशश्यामवैधर्म्यस्य श्यामनिष्ठत्वाच्छ्यामो न श्याम इत्यादेरपि प्रसंगात् / किं च भेदोऽप्यस्माकं नात्यन्तमतिरिक्तः, किंतु द्रव्यपर्यायात्मैवेति वैध→पर्यायमादाय न भेदप्रतीत्यपह्नवः। अन्यथा कथंचिच्छाब्दबुद्धयुपपादनेऽप्युक्तवैधर्म्यस्य प्रत्यक्षबुद्धौ कथमारोह इति विचारणीयम् / अत एव भेदानामभेदानां चापरिमितत्वादात्मनः शरीरपृथक्त्वाभावात्तद्धर्माभेदोऽप्यत्यन्तविशेषपर्यायं यावदवर्जनीय इति कथंचिन्मूर्तत्वेन तस्य शरीरानुप्रवेशादिकमपि नानुपपन्नम् / अनेनैवामिप्राये एक आत्मेत्यादिसूत्रप्रसिद्धेः, अन्योन्यानुप्रवेशेन शरीरै क्यमापन्नस्यैव करणभेदेनानेकान्तात्रैविध्यसिद्धेः,वाह्याभ्यन्तरविभागस्य चेन्द्रियनोइन्द्रियबुद्धिमात्रकृतत्वेन शङ्गाग्राहिकयाऽव्यवस्थितेः,उभयपर्यायाणां शरीरात्मद्वित्ववदविवेचनीयत्वादिति विभावनीयम् / यन्महावादी - अण्णुण्णाणुगयाणं, 'इमं च तं व' त्ति विभयणमजुतं / जह दुद्धपाणियाणं, जावंत विसेसपज्जाया // रूवाइपज्जवा जे, देहे जीवदवियंमि सुद्धमि / ते अण्णुण्णाणुगया, पण्णवणिज्जा भवत्थंमि // एवं 'एगे आया, एगे दंडे य होइ किरिया य' / करणविसेसेण तिविहजोगसिद्धी वि अविरुद्धे // ण य वाहिरओ भावो, अभंतरओ य अस्थि समयमि / णोइंदियं पुण पडुच्च, होइ अब्भंतरविसेसो // ___ [सम्मतिप्रकरण काण्ड 1, गा. 47-50) न च शरीरसम्बन्धात्पागात्मनोऽमूर्तत्वं दुर्वारं संसारावस्थायां तदा तैजसकार्मणशरीरसम्बन्धाभ्युपगमात् , अन्यथा तत्तद्व्यवच्छिन्नस्थूलशरीरसम्बन्धायोगात्पुद्गलोपष्टम्भव्यतिरेकेणोर्ध्वगतिस्वभावस्य दिग्गमनासम्भवात् / मनुष्यशरीराद्यक्षणे आहारक्रियायाः पूर्वशरीरप्रयोग विनाs'सम्भवात्प्रागपि शरीरसम्बन्धसिद्धेः / शरीरवृद्धित्वावच्छिन्ने आहारस्य हेतुत्वं च लोकावगतमेव, शरीरवृद्धित्वं च शरीरत्वव्याप्यो जातिविशेषः, स्वविशिष्टौदारिकाद्यन्यतमत्वं वा। न चैवं लाघबाच्छरीरत्वावच्छिन्न एवाहारस्य हेतुत्वाद्विग्रहगतावप्याहारप्रसंग इति वाच्यम् , आगमानुपग्रहे माधवस्याकिंचित्करत्वात् / किंचानादिशरीरबन्धनसिद्धावेव तन्नाशार्थ मुमुक्षोः प्रवृत्त्युपपत्तिः,