________________ 16] आत्मख्यातिः व्याख्या- यथेत्युदाहरणे प्रतिपूर्णो व्यतीतवयःसन्धितयोद्भतो यौवनमेव गुणो यस्य स तथा बालभावचरितेन चौर्यासंस्पृश्यस्पर्शरजःक्रीडादिना लज्जते स्वस्मिन्नविवेकित्वं जानाति / ततो युवा बाल एव बालाभेदप्रत्यभिज्ञानजत्वाल्लज्जायाः, अतोऽतीतवर्तमानैकत्वम् / करोति च युवाऽनागतसुखोपधानार्थ वृद्धावस्थायां सुखप्राप्तिरूपोपेयेच्छया गुणोनोपायेच्छालक्षणेन प्रणिधानं सुखसाधनमलम् , एवं च वृद्धोऽहं सुखी स्यामित्यभेदाध्यवसायादनागतवर्तमानयोरैक्यमिति भावः / न च भवति यौवनस्थो बालः किन्त्वन्य एव बालभेदाध्यवसाये तस्य तदाभेदाध्यवसायपयुक्तलज्जाभावस्यापि दर्शनात् / तदाह--तेन बालचरितेनान्योऽपि न लज्जते तस्मात्पुरुषान्तरवबालादन्य एव युवा / एवमतीतवर्तमानयोर्भदः तथा विभक्तं विभागो भेद इति. यावद्, भावे क्तः, अकारप्रक्षेपादविभक्तमभेदस्तस्मिन् सति अनागतं वयोवृद्धावस्था तत्र गुणप्रसाधनं प्राप्त्यर्थो यत्नस्तदपि न संभवति अविचलितकस्वरूपतया तत्सुखसाधनार्थ यत्नासंभवात् / एवमनागतवर्तमानयोर्भेद इति भेदाभेदशबलमेव पुरुषतत्त्वं सिद्धम् , जातिः पुरुषत्वादिकं कुलं प्रतिनियतपुरुषजन्यत्वव्यंग्यः पर्यायविशेषः, रूपं श्वेतरक्तादिलक्षणं सुखदुःखसूचकं तिलकादि, संज्ञानामाभिधेयत्वम् एभिर्यः संबन्धस्तदात्मपरिणामस्तमाश्रित्यावगतस्य भिन्नत्वेनाध्यवसितस्य बालादिभावैर्दुष्टैविगतस्य तैरुत्पादविगमतामापन्नस्येति यावत् / यथा तस्य संबन्धो भेदाभेदापरिणतिरूपः, ताभ्यामतीतानागतगुणदोषजुगुप्साभ्युपगमाभ्यां यथा भेदाभेदात्मकस्य पुरुषस्य सिद्धिः तथा बन्धमाक्षसुखदुःखप्रार्थना तत्साधनोपादानपरित्यागद्वारेण भेदाभेदात्मकस्यैव जीवद्रव्यस्य भवति, उत्पादव्ययध्रौव्यात्मकस्य तस्यानाद्यनन्तस्य प्रसाधितत्वात् / तथाहि-मरणचित्तं भाव्युत्यादस्थित्यात्मकं मरणचित्तत्वाज्जीवदवस्थाविनाशचित्तवत् / तथा जन्मादौ चित्तप्रादुर्भावोऽतीतचित्तस्थित्तिविनाशात्मकश्चित्तप्रादुर्भावत्वान्मध्यावस्थाचित्तप्रादुर्भाववत् , इत्यादिनात्मनस्त्रयात्मकत्वम् / दृष्टं च मृद्रव्यस्यापि घटकपालादिनाशोत्पादाभिन्नस्थित्यात्मकत्वम् , य एव हि कपालाद्यात्मना मृद्रव्यस्योत्पाद: स एव घटात्मना नाशः, तावेव च मृद्र्व्यस्थितिरिति सार्वजनीनानुभवात् / घटादिपरिणामेष्वेव घटत्वावच्छिन्नध्वंसत्वकपालत्वावच्छिन्नोत्पादत्वसत्त्वकल्पनात् अतिरिक्ततत्कल्पने गौरवात् तदाश्रयताया एव च स्थितिरूपत्वात् / न च ध्वंसस्यैवोत्पादत्वे द्वितीयादिक्षणेष्वप्युत्पादप्रतीत्यापत्तिः, उत्पादत्वावच्छिन्नवृत्तावाद्यक्षणनियतसामयिकसंबन्धस्यैव नियामकत्वात् / न च ध्वस्त इति प्रतीतो ध्वंसाश्रयत्वेन घटस्थितिविषयीकरणे घटध्वंसकालेऽषि प्रतियोगिसत्त्वे पूर्ववत्प्रत्यक्षत्वापत्तिरिति वाच्यम् , तस्मिन् काले घटासत्त्वेऽपि निराश्रयधर्मप्रतीत्ययोगाद्व्यरूपेण सत्त्वे द्रव्यरूपेण प्रत्यक्षस्याप्यनपवादाच्च / घटध्वंसकाले घटत्वेन सत्त्वं तु नाङ्गीक्रियते एवेति / सत्कार्यनयाव. लम्बिनस्त्वाहुर्घटध्वंसकाले ध्वंसाश्रयत्वेन प्रतीत्या ध्वंसात्मकभावरूपातिशयाश्रयघटसत्ताङ्गीकारेऽपि