________________ आत्मनः शरीरपरिमाणत्वम् [15 चाक्षुषे चक्षुःसंयुक्तमहदुद्भतरूपवद्विशेषणताहेतुरित्येवमभावप्रत्यक्ष एव त्रयं वाच्यं भावप्रत्यक्षेऽन्यत् , तथा च तृतीये कार्यतावच्छेदकेऽभावत्वाप्रवेशाद्भावप्रत्यक्षेऽपि वैशिष्ट्यवादिनो निर्वाहः / एवं चक्षुःसंयुक्तसमवायादेरप्यस्वीकारालाघवमिति / न च मयापि व्यासज्यवृत्तिधर्मप्रत्यक्षानुरोधेन तत्तद्रव्यचाक्षुषादौ चक्षुःसंयोगादिहेतुत्वेनैव तत्तद्वत्तिगुणकर्माभावादिप्रत्यक्षनिहिं कृत्वा चक्षुःसंयुक्तसमवायादिप्रत्यासत्तिर्नाद्रियत इति वाच्यम् , तथापि यत्र न व्यासज्यवृत्तिधर्मप्रत्यक्षानुरुद्धा हेतुता तत्र लाघवाद्वैशिष्टयसिद्धेर्दुरित्वात् / न च गन्धग्राहकं घाणसंयुक्तमहत्त्वोद्भतगन्धवद्वैशिष्ट्यं गन्धाभावग्राहकं च घ्राणसंयुक्तमहत्त्ववद्वैशिष्टयमात्रमिति तत्प्रत्यासत्योरुद्भूतगन्धघटिताघटितयो क्यसंभव इति वाच्यम् , अनुभूतगन्धभेदत्य गन्धसाक्षात्कारहेतुतयोद्भूतगन्धस्य सन्निकर्षाघटकत्वादिति / द्रव्यजात्यन्यचाक्षुषे महदुद्भतरूपवद्भिन्नसमवेतत्वेन प्रतिबन्धकत्वात्समवायसिद्धिरिति तु मन्दम् , द्रव्यान्यसच्चाक्षुषत्वावच्छिन्न एव महदुद्भतरूपवदिन्नवृत्तित्वेन प्रतिबन्धकत्वस्य वक्तुं शक्यत्वात् , जात्यन्यत्वस्थाने नित्यान्यत्वनिवेशेनापि निर्वाहाच्चेति दिक् / ___ तदेवं परनीत्या वैशिष्ट्येनापि समवायान्यथासिद्धेर्न तत्र मानं पश्यामः / न च वैशिष्टयमपि गुणगुणिभ्यो भिन्नं तृतीयतत्त्वमनुभूयत इति कथंचित्तादात्म्यमेव तत् तथा च परिमाणभेदात् कथंचिदात्मभेदेऽपि तदात्मद्रव्याभेदो निष्प्रत्यूह एवेति नियूंढम् / शरीरजीवात्मन उत्पादव्ययध्रौव्यशालित्वम् नन्वेवं बालयुवशरीरादेरिवात्मन उत्पत्तिः स्यादिति चेत्-सत्यम् , बालत्वयुवत्वाभ्यामुत्पादव्यययोश्चैत्रत्वेन च ध्रौव्यस्य भेदाभेदाभ्यामात्मनि शरीरतुल्ययोगक्षेमत्वात् / तदुक्तं सम्मतौ पडिपुण्णजोव्वणगुणो, जह लज्जइ बालाभावचरिएण / कुणइ य गुणपणिहाणं, अणागयसुहोवहाणत्थं // ण य होइ जोव्वणत्थो, बालो अण्णो वि लज्जइ ण तेण / ण वि य अणागयवयगुण-पसाहणं जुज्जइ विभत्ते // जाइकुलरूवलक्खणसण्णासंबंधओ अहिगयस्स / बालाइभावदिढविगयस्स जह तस्स संबंधो // तेहिं अतीताणागयदोसगुणदुगुंछणऽभुवगमेहिं / तह बंधमोक्खसुहदुक्खपत्थणा होइ जीवस्स // [ काण्ड 1, गा. 43-46 ]