________________ आत्मनः शरीरपरिमाणत्वम् न तत्प्रत्यक्षापत्तिः, प्रत्यक्षत्वमन्तरेणापि कुड्यादिव्यवहितस्य सत्तानीकारात् , प्रत्यक्षत्वाव्याप्येन तदापादनायोगात् , व्यवधानानां च फलैकोन्नेयत्वात् , कुड्यादिविलक्षणव्यवधानं ध्वंसान्यभानुपपत्तिरेव गमयतीति न दोष इति / अथ ध्वस्त इति प्रतीतो साश्रयत्वावगाहित्वे घटो ध्वस्त इतिवत्कपालं ध्वस्तमिति प्रतीत्यापत्तिः, कपाले घटध्वंस इति प्रतीत्याऽभेदेऽपि घटाभावे पटाभाव इतिवत्तत्र तदाश्रयत्वस्य निरपवादत्वादिति चेत्-न, उत्पादत्वावच्छिन्नाश्रयत्वानवच्छिन्नताश्रयताया एव ध्वस्त इति प्रतीतिविषयत्वस्वीकारात् , ध्वस्त इति प्रतीतिः ध्वंसप्रतियोगित्वमेवावगाहतां किमनया कुसृष्टयेति चेत्न, प्रतियोगित्वस्य निर्वक्तुमशक्यत्वात् / प्रतियोगित्वनिर्वचनम् / ___न च प्रतियोगिव्यवच्छेदकसम्बन्धेन स्वाभाववति तेन सम्बन्धेनासंबद्धत्वं प्रतियोगित्वं, समवायेन वयभाववति संयोगेन वह्नः सम्बद्धत्वाद्वन्यभावप्रतियोगितायामव्याप्तिवारणाय सम्बन्धेनेत्यंतमन्योन्याभावप्रतियोगितायामव्याप्तिवारणायावृत्तित्वस्थानेऽसंवद्धत्वनिवेशः / न चाव्याप्यवृत्तेरभावस्य प्रागभावादेश्च प्रतियोगितायामव्याप्तिवारणायैकदेशकालावच्छेदेनेति विशेषणावश्यकृत्वात्तदव्याप्त्यनुद्धार एव, तत्तदभावस्य देशतयानवच्छेदकेनानवच्छिन्नं सत् कालतयानवच्छेदकेनानवच्छिन्नं यत्तत्तदभाववत्संबन्धित्वं तदभावस्य तदर्थत्वात् / देशतया कालतयानवच्छेदकत्वं च तत्तदवच्छेदकतया तत्तदभावशून्यत्वं, नातो गोत्वाभावान्योन्याभावादेविशेषणतया वृत्ताववच्छेदकाप्रसिद्धावपि क्षतिरिति वाच्यम्, सत्ताभावप्रतियोगित्वेऽव्याप्तेः, समवायेन सत्ताभाववति समवायेन संबन्धत्वाप्रसिद्धेः / प्रतियोगितावच्छेदकसंबन्धेन प्रतियोगिसंबन्धि यदधिकरणं तदवृत्त्यभावकत्वं / प्रतियोगित्वमित्यभिधाने च व्यधिकरणसंबन्धावच्छिन्नाभावप्रतियोगितायामज्याप्तः, तेन संबन्धेन प्रतियोग्यधिकरणाप्रसिद्धेः / अवृत्तित्वं चाभावतानियामकसंबन्धेन वाच्यमिति सत्ताप्रतियोगित्वेऽव्याप्तः, सत्ताभावरूपप्रतियोगिसंबन्ध्यधिकरणेऽभावतानियामकसमवायेन सत्ताया वृत्तेरप्रसिद्धः / ___ यादृशसंबन्धसामान्ये यद्धर्मावच्छिन्नप्रतियोगिकत्वयदभावाधिकरणत्वानुयोगिकत्वोभयामावस्तद्धर्मवत्त्वं तद्धर्मावच्छिन्नतत्संवन्धावच्छिन्नतदभावप्रतियोगित्वमिति खण्डशः प्रसिद्धया लक्षणकरणे चाकाशादावाकाशत्वावच्छिन्ननिखिलाभावप्रतियोगित्वापत्तेः . संयोगादिसामान्ये आकाशत्वाद्यवच्छिन्नप्रतियोगिकत्वनिखिलाभावाधिकरणानुयोगिकत्वोभयाभावसत्त्वात् , एवं संयोगावच्छिन्नघटाद्यभावप्रतियोगितायामव्याप्तेः संयोगस्य घटीयत्वाऽघटानुयोगिकत्वोभयवत्त्वात् , समव्याप्यवृत्तेः प्रागभावादेश्च प्रतियोगित्वेऽव्याप्तेश्च / अभावविरहात्मत्वं प्रतियोगित्वमित्युक्ता मा-३