________________ आत्मख्यातिः वाच्यम् , करवृत्तितानियामककपालसंयोगवति कपाले कपालाभावसत्त्वेन व्यभिचारात् / यत्र यवृत्तितानियामकः सम्बन्धस्तत्र तद्वत्त्वनियम इति चेत्-तर्हि रूपसमवायस्य वायुवृत्तित्वानियामकत्वादेव वायौ न तद्रूपत्वमिति चेत् -न, तत्र तदृत्तितानियामकत्वं हि तत्र तद्विशिष्टबुद्धि जनकत्वं, अस्ति च वायावपीह रूपमिति धीः, तदभावप्रत्यक्षवादिनाऽपि तत्रावश्यं तत्स्वीकारात् / सारोपरूपा न तु प्रमेति चेत्-न, तदभावधियः सत्यत्वासिद्धौ तदप्रमात्वासिद्धेरिति मिश्रेणैवो. क्तत्वात् / वस्तुतस्तत्र तद्विशिष्टधीविरहोऽपि तद्वत्ताभावादित्यन्योन्याश्रयः / ___ यच्चैकस्यैव समवायस्य किंचिदधिकरणावच्छेदेन रूपसम्बन्धत्वकल्पनेनैव व्यवस्थोपपत्तिरितितन्न, रूपसम्बन्धत्वं हि रूपप्रकारकविशिष्टज्ञानीयसम्बन्धताख्यविषयताविशेषशालित्वं तच्च तत्तदधिकरणान्तर्भावेन विशिष्टबुद्धिहेतुतयैव निर्वहतीति महागौरवात् / अस्माकं तु रूपप्रकारकविशिष्टबोध एव रूपसम्बन्धस्तन्त्रमिति लाघवात् / अथाधारताख्यं पदार्थान्तरमवश्यं स्वीकर्तव्यं कुण्डादेर्बदराधारतास्वरूपत्वे कुण्डे कुण्डमिति प्रतीत्यापत्तेः। बदराधारतात्वेन कुण्डे कुण्डवृत्तित्वं न तु कुण्डत्वेनेत्युपगमे आधारतात्वस्याप्यघिकस्यावश्यं कल्पनीयत्वात् / तच्च सम्बन्धभेदेन भिन्नमिति वायौ रूपसमवायसत्त्वेऽपि समवाय. सम्बन्धावच्छिन्नरूपाधारत्वाभावान्नानुपपत्तिः, तत्सत्त्वे तत्र समवायेन रूपं नेति बुद्धयनुदयप्रसंगात् , तेन सम्बन्धेन तदभाववत्ता बुद्धौ तत्सम्बन्धावच्छिन्नाधारतासंसर्गकतत्प्रकारकबुद्धेरेव विरोधित्वात् , अत एव कुण्डादिप्रतियोगिकसंयोगमात्रेण बदरादौ कुण्डादिप्रकारकबुद्धावपि बदरादौ कुण्डादिकं मेति धीरिति चेत्-न, रूपादिभेदेन समवायसम्बन्धावच्छिन्ननानाधारताकल्पनापेक्षया नानासमवायकल्पनस्यैवोचितत्वात् , इत्थमेव जले स्नेहस्य समवायो न गन्धस्येत्यादि प्रतीत्युपपत्तेः / अनुमतमेतच्छिरोमणिमतानुयायिनाम् / ते हि वदन्ति-रूपिनीरूपव्यवस्थानुरोधान्नानैव समवायः, समनियतकालदेशावच्छेदकानां संख्यापरिमाणपृथक्त्वादीनां चैक एव / तदभिप्रायेणैव समवायैकत्वप्रवाद इति चेत्-- न, एवं ह्यस्य तादात्म्यस्यैव नामान्तरत्वात् , गुणत्वावच्छेदेन गुणिस्वरूपसम्बन्धत्वकल्पनानौचित्यादतिरिक्ताना सम्बन्धत्वकल्पनापेक्षया क्लप्तानां रूपादीनामेव तत्त्वकल्पनौचित्यादिति दिग् [क्] / यदि पुनरप्येवमनुगतीनिहाय समवायोऽभ्युपेयते तदा लाघवादभावादिसाधारणं वैशिष्ट्यमेवाभ्युपगन्तुमुचितम् / न च घटवति भूतले घटाभावधीप्रसंगः,तदानीं तदधिकरणता स्वाभाव्या भावम्य वक्तुमशक्यत्वात् , स्वभावस्य यावद्रव्यभावित्वात् / रक्ततादशायां घटे श्यामाधिकरणतास्वाभाव्येऽपि श्यामाभावेन तदंशे लौकिकपत्यक्षाभावादिति वाच्यम् / समवाय