________________ आत्मनः शरीरपरिमाणत्वम् [11 समवायत्वं च न नित्यसम्बन्धत्वं किंत्वखण्डसमवायव्यक्तिरेवेति चेत्-न, गुणादिसमवायत्वापेक्षया गुणत्वादिनैव हेतुत्वौचित्यात् / न चाभावादिविशिष्टबुद्धिव्यावृत्तानुभवसिद्धवैलक्षण्यविशेषवबुद्धित्वावच्छिन्नं प्रति समवायं विना नान्यन्नियामकं गुणत्वादिना हेतुत्वे व्यभिचारादिति वाच्यम् , वैलक्षण्यस्य जातिरूपस्यानुमितित्वादिना सांकर्यात् , विषयितारूपस्य न समवायासिद्ध्या दुर्वचत्वात् / एतेन संबन्धांशे विलक्षणविषयताशालिगुणादिविशिष्टप्रत्यक्षे तद्धेतुत्वमिति परास्तम् / / यत्तु प्रथमानुमानादेव समवायसिद्धिः समवायबाधोत्तरकालकल्पनीयेन स्वरूपसम्बन्धेनार्थान्तराभावादिति मिश्रेणाभिहितम्-तत्तुच्छम् , अन्यत्र क्लप्तजातीयत्वेनोपजीव्यत्वेन च स्वरूपसम्बन्धस्यैव प्रथमोपस्थितिकत्वात् ,अन्यथाऽभावादिविशिष्टबुद्धावपि स्वरूपसम्बन्धानवगाहित्वप्रसंगात्, समवायबाधोत्तरकालोपस्थितिकस्वरूपसम्बन्धस्य पूर्व भानायोगात् / किं च समवायस्याखंडस्यालीकत्वाच्छशशंगस्येव बाधः कुत्रापि नापेक्षितः, समवायत्वबाधस्तु स्वरूपे सम्बन्धत्वकल्पनानन्तरमेवेति विपरीतमेतत् / यदपि तद्घटरूपयोविशिष्टबुद्धौ विनिगमना. विरहादुभयोः सम्बन्धिनोः सम्बन्धत्व कल्पनीय, तथा च लाघवादेक एक समवायः सम्बन्धत्वेन कल्पते, अभावस्थले त्वधिकरणानां नानात्वादेकस्याभावस्यैव सम्बन्धत्वं युक्तमिति न तत्र सम्बज्धान्तरकल्पनप्रतिबन्ध्यवकाश इति, तदपि न / समवायस्तत्र समवायत्वं क्लप्तभावभेदो नानाधिकरणवृत्तित्वमित्यादिकल्पनायां महागौरवात् / एतेन गुणगुण्यादिस्वरूपद्वये सम्बन्धत्वमतिरिक्तसमवाये वेति विनिगमनाविरहादप्यन्ततः समवायसिद्धिरित्यप्यपहस्तितं जातेरनुगतत्वेन ब्यक्तिसम्बन्धत्वौचित्ये जातिव्यक्त्योः समवायोच्छेदापत्तेश्च / ___ किं च रूपिनीरूपवस्थानुरोधेन रूपादीनां सम्बन्धकल्पनावश्यकत्वान्न समवायस्य सम्बन्धत्वं वाय्वादेर्नीरूपत्वस्य रूपीयतद्धमताख्यसम्बन्धाभावादेव मित्रैरप्युपपादितत्वात् तद्धमतायाश्च तद्रूपानतिरिक्तत्वात् / उक्तानुमितौ (?) समवायबाधाभावविशिष्टलाघवज्ञानस्य समवायविषयत्वनियामकस्य तद्वाधाभावेऽव्याहत्वात्स्वरूपसम्बन्धेन नार्थान्तरमिति। मिश्राशयस्तु प्रकृते लाघवप्रयोजकखण्डनादेव निरस्तः। एतेनेयमनुमितिरेकसम्बन्धविषयिणी लाघवज्ञानकालीनसम्बधानुमितित्वादित्याद्यपि निरस्त बन्यपक्षकसम्बन्धानुमितो व्यभिचाराच्च / / यत्तु रूपसमवायसत्त्वेऽपि वायौ स्वभावतो रूपाभावादेव नीरूपत्वमिति चिन्तामणिकृतोक्तं सदविचारितरमणीय, प्रतियोगिसम्बन्धसत्त्वे तत्सम्बन्धावच्छिन्नाभावायोगात् / अथ प्रतियोगिसम्बन्धसत्त्वेऽपि तद्वत्ताया अभावात्तत्र तदभावाविरोधः / न च तत्सम्बन्धस्तद्वत्तानियतो गगनीयसंयोगे व्यभिचारात् , न च वृत्तिनियामकेति विशेषणान्न दोष इति * एतदनन्तरे 'भ्यायालोके' 'यत्तु रूपे'त्यादिग्रन्थः /