________________ 10] . आत्मख्यातिः निर्वाहः / किं च न द्रव्यत्वेनेत्यत्र नार्थे कस्यान्वयः दण्डत्वधूमत्वगर्भकारणताव्याप्त्यौव्यत्वाव च्छिन्नत्वाभावेन तदवच्छिन्नतद्वतोर्नजर्थे भेदेऽन्वयस्य कर्तुमशक्यत्वात् / प्रतियोग्यभावान्वययोस्तुल्ययोगक्षेमत्वाद्र्व्यत्वावच्छिन्नत्वस्य नार्थेऽभावे तस्य च कारणव्याप्यपदार्थे कदेशकारणताव्याप्त्योरेवात्रान्वय इति चेत्-न, अनुभूयमानप्रतियोगिकभेदापलापे न प्रतीतेरन्यथात्वव्यवस्थापने शाखायां न संयोग इत्यत्रापि संयोगे शाखावच्छिन्नत्वाभावावगाहित्व. व्यवस्थापने शाखावच्छिन्नसंयोगाभावादेरप्यसिद्धिप्रसंगात् / अपि चात्मद्रव्यात्तत्परिमाणादीनां भेदस्तावदन्यैरपि स्वीक्रियत एव,अभेदस्तु तत्संबन्धतयैव सेत्स्यतीत्येवमपि भेदाभेदः सुलभ एव, समवाये मानाभावात् / समवायनिरासः * तथा हि --गुणक्रियाजातिविशिष्टबुद्धयो विशेषणसंबन्धविषयाः विशिष्टबुद्धित्वाद्दण्डीति बुद्धि. वदित्यनुमानान्न तत्सिद्धिः, अभावज्ञानादिविशिष्टबुद्धिभिर्व्यभिचारात् / न च तासामपि स्वरूपसम्बन्ध. विषयत्वान्न व्यभिचारस्तर्हि तेनैवार्थान्तरत्वात् / न च लाघवात्पक्षधर्मतावलेनैकसमवायसिद्धिः, पक्षबाहुल्ये लाघवस्यानुपादेयत्वात् / अन्यथा द्रव्यमपि पक्षेऽन्तर्भाव्य समवायसिद्धिप्रसंगात् / न चानुभवसिद्धसंयोगाद् द्रव्ये समवायबाधः, प्रमाणसमाहारे प्रमेयसमाहाराविरोधात् / न च नानाविशेषणसम्बन्धे एकत्वानेकत्वादर्शनात्तत्र लाघवगौरवानवकाशेऽप्येकत्र सम्बन्धैकत्वानेकत्वयोर्दर्शनेन तत्र तदवकाशात् प्रत्येकविशिष्टबुद्धिपक्षीकरणे लाघवात्समवायसिद्धिः / स्वरूपसम्बन्धस्य सम्बन्धिद्वयात्मकत्वेन गौरवाद्धर्मीति न्यायस्याप्येककल्पनालाघवमूलत्वेनात्रानवतारादिति वाच्यम् , द्रव्येऽपि तसिद्ध्यापत्तेः / न च संयोगत्वावच्छेदेन सम्बन्धत्वकल्पनात्संयोगसम्बन्धवति सम्बन्धान्तरकल्पने लाघववैपरीत्यं, गुणगुण्यांदिद्वये तु नैवमनुगतधर्मान्तरमस्ति येन क्लप्तलाघवाद्वैपरीत्यं स्यादिति वाच्यम् , तत्रापि वस्तुत्वसत्त्वाद्यवच्छेदेन वैलक्षण्यविशेषावच्छेदेन वा सम्बन्धत्वकल्पनात् , किं च प्रतीतेविषयनियमोऽनुभवात्सामग्रीभेदावा न तु लाघवात् , अन्यथा सविषयकत्वानुमानं सर्वविषयकत्वावगाह्येव स्यात्तत्तदविषयकत्वापेक्षया तत्तद्विषयकत्व एव लाघवात् / ___अथ विशेषणसम्बन्धनिमित्तका इति साध्यं हेतौ च सत्यत्वं विशेषणं तेन विशिष्टश्रमे न व्यभिचारः बुद्धि पदं च प्रत्यक्षपरं तेन नांशतो बाधव्यभिचाराविति समवायसिद्धिरिति चेत्-न, गुणादिविशिष्टप्रत्यक्षे विशेषणसम्बन्धत्वेन न हेतुत्वं सम्बन्धत्वस्य विषयत्वादिगर्भतया जनकतावच्छेदकत्वादिति मिश्रेणोक्तत्वात् / अत एव गुणादिविशिष्टप्रत्यक्षे गुणादिसमवायेन हेतुत्वं, एतत् समवायनिराकरण न्यायालोकस्य द्वितीयप्रकाशेऽप्यस्त्येव /