________________ आत्मनः शरीरपरिमाणत्वम् [13 वादिनो वृक्षे शाखायां कपिसंथोगस्य मूलावच्छेदेनेव वैशिष्ट्यवादिनो भूतलादौ घटाभाववैशिष्ट्यस्य घटकालावच्छेदेनासम्बन्धत्वात् / न च तत्र शाखासमवायोभयमेव सम्बन्धो न तु समवायसम्बन्धत्वे शाखावच्छेदि केति वाच्यम् , शाखावच्छेदेन समवायसम्बन्धावच्छिन्नसंयोगाभावग्रहेऽपि शाखाया संयोगीति बुद्ध्यापत्तेः, तत्रोक्तोभयसम्बन्धावच्छिन्नसंयोगाभावग्रहस्यैव विरोधित्वात् / अन्वयव्यतिरेकाभ्यां तत्रोक्ताभावग्रहस्यापि प्रतिबन्धकत्वकल्पने तु गौरवम् / अस्तु चेदानी घटाभाव इत्यत्रापि तत्कालवैशिष्ट्योभयसम्बन्धेन घटाभाव एव विषय इति न किंचिदनुपपन्नम् / अथ समवायेन जन्यभावत्वावच्छिन्नं प्रति द्रव्यत्वेन हेतुत्वात्समवायसिद्धिः स्वरूपसम्बन्धेन कालिकादिरूपेण जन्यभावस्थ स्पन्दादावप्युत्पत्याऽतिप्रसंगादिति चेत्-न, तथा हेतुत्वस्य प्रागेव निरासात्। समवायस्थाने कालिकविशेषणतादिभिन्नपदार्थमात्राधारतानियामकवैशिष्ट्याख्यसम्बन्धस्याभिषेकयोग्यत्वाच्च / ___ न च प्रतियोगितया घटादिसमवेतनाशे स्वप्रतियोगिसमवेतत्वेन घटादिनाशस्य हेतुत्वात्समवायसिद्धिः, स्वप्रतियोगिवृत्तित्वेन हेतुत्वे घटादिवृत्तिध्वंसध्वंसापत्तेः / न च जात्यादौ तदापत्तिवारणाय महाप्रलयावृत्तित्वेन प्रतियोगिनो हेतुत्वाद्ध्वंसेऽपि न तदापत्तिर्जात्यादौ तदापत्तिवारणाय कालावच्छिन्नस्वप्रतियोगिसमवेतत्वेनैव नाशकत्वस्वीकारादिति वाच्यम् , रूपादावपि समवायस्य कालावच्छिन्नत्वे मानाभावात् , रूपादिविशिष्टसमवायस्य तत्तदाधारस्वरूपस्य कालावच्छिन्नत्वे विशिष्य ग्रहणप्रसंगेनासमंजस्यात् , कथंचिज्जात्यादिव्यावृत्तसमवेतत्वस्येव ध्वंसादिव्यावृत्तवृत्तित्वस्यापि सुग्रहत्वाच्च / . किं च. घटादिसमवेतनाशमात्रे घटादिनाशो न हेतुः, घटादिकालीतत्तिक्रियासंयोगविभागवेगद्वित्वादिनाशे व्यभिचारात् , नापि घटादिनाशक्षणवृत्तितत्समवेतनाशे, क्षणानामानन्त्येन तत्त्वतत्त्वेन नाश्यनाशकभावस्यैवोचितत्वात् / किं तु घटादिनाशवृत्तेर्घटा दिनाशवत एव वा तत्समवेतस्य नाशे, तथा च घटादिनाशवृत्तेस्तन्नाशवत एव वा नाशे तद्वेतुत्वमस्तु, कार्यकारणयोः कालिक एव सम्बन्धः / न चैवं घटादिनाशानिमाग्रिमक्षणेषु तादृशनाशापत्तिरिष्टत्वात् , प्रतिक्षण तादृशस्य कस्यचिन्नाशात् / न च विनाऽपि पटादिनाशं पटादिरूपादे शापत्तिः पटादिनाशवृत्तेः पटादिरूपादेर्नाशे पटादिनाशस्यापि हेतुत्वात् ? / इत्थं च चरम द्रव्यनाशादेव चरमद्रव्यनाशवृत्तेस्तन्नाशवतो वा ध्वंसमात्रस्य महाप्रलये नाश इत्येव किं नाद्रियते ? अथ प्रतियोगितया स्वप्रतियोगिसमवेतत्वस्वाधिकरणत्वोभयसम्बन्धेन नाशवन्नाशत्वावच्छिन्न एव स्वप्रतियोगिसमवेतत्वेन नाशत्वावच्छिन्नस्य हेतुत्वात्समवायसिद्धिरिति चेत्-न, तादृशनाशवद् घटनाशस्य प्रतियोगितया घटप्रागभावेऽपि जायमानत्वेन