________________ [ 7 आत्मनः शरीरपरिमाणत्वम् आत्मस्थितशरासनाध्यासनप्रयत्ने दूरस्थितलल्यक्रियाप्राप्तिहेतौ तथादर्शने च विचित्रशक्तिकत्वाद्भावानामदृष्टस्य स्वाश्रयसंयोगं विनाऽपि कार्यहेतुत्वान्न साध्यसिद्धिः / अयस्कान्तनिष्ठलोहभ्रामकस्पर्शगुणेन व्यभिचारश्च / न च तत्स्पर्शस्य न लोहाकर्षणहेतुत्वं तेनैवान्यथासिद्धत्वा दिति वाच्यम् , तदुत्कर्षेण क्रियोत्कर्षात्तस्य तद्धेतुत्वात् / एतेनादृष्टमेवायस्कान्ताकृष्यमाणलोहदर्शनसुखवत्पुसो निःशल्यत्वेन तक्रियाहेतुरिति परास्तं, दृष्टेनोपपत्तावदृष्टकल्पनाया अन्याव्यत्वादन्यथाऽन्यत्रापि तद्धेतृत्वप्रसंगात् / यदपि शत्रुजिघांसया कृतेन श्येनेनादृष्टजननात्तस्य शत्रावसंबन्धात्कथमात्मविभुत्वं विना क्रियाफलोपपत्तिरिति, तदपि न, शक्तिविशेषरूपस्य कारणत्वस्यासम्बन्धेऽप्यविरोधात् , सम्बन्धघटितत्वे वा तस्य प्रकृतेऽपि फलयोग्यताख्यः कश्चित्सम्बन्धः कल्प्यतामिति / ___ अथात्मनो महत्त्वं तावन्निर्विवाद, द्रव्यचाक्षुष प्रति कल्पनीयहेतुभावस्य महत्त्वस्य लाघवेन जन्यद्रव्यसाक्षात्कारत्वावच्छिन्नं प्रत्येव हेतुत्वकल्पनात् , ओत्मसाक्षात्कारनिर्वाहायात्मनि महत्त्वावश्यकत्वात् , तच्च महत्त्वं न जन्य, कार्य महत्त्वमवयवबहुत्वजन्यं स्यात्तन्महत्त्वजन्यं वा प्रचयजन्यं वा न च त्रितयमपि निरवयवस्यात्मनः संभवति / एवं चायं प्रयोगः-'आत्मा विभुनित्यमहत्त्वादाकाशवदिति चेत्-अत्रोच्यते / अत्र हि परमप्रकृष्टपरिमाणवत्त्वलक्षणं विभुत्वं साध्यते / न च नित्यमहत्त्वे सत्यपि परमप्रकर्षविपर्यय बाधते कश्चितर्क इत्यप्रयोजकोऽयं हेतुः / अप्रकृष्टत्वे तस्य जन्यत्त्वापत्तिाधिका गगनमहत्त्वावधिकापकर्षस्य बहुत्वजन्यतावच्छेदकत्वादिति चेत्-न, परमाणुपरिमाणसाधारणतया तस्य कार्यतानवच्छेदकत्वात् , त्रुटिमहत्त्वावधिकोत्कर्षेण समं सांकर्यात्तादृशापकर्षस्य जातित्वासिद्धेश्च / किं च युष्मन्मते आत्मनो महत्त्वं तावन्निविवादमित्यपि वार्तामात्रम् / ईश्वरस्य च परिमाणवत्त्वे मानाभावो द्रव्यत्वस्य त्रुटित्वादेखि परिमाणस्यासाधकत्वात् , तस्य चापरिमितावृत्तित्वमसिद्धमिति पदार्थखण्डनप्रतीके / वस्तुतः पुनरीश्वरस्य द्रव्यत्वेऽपि मानाभावस्तत्र संयोगे विभागेऽपि मानाभावात् , मानाभावाच्च क्रियाविशेष प्रति प्रयत्नवंदात्मसंयोगासमवायिकारणकत्वस्य / नत्वेवमात्ममनोयोगेन्द्रियजन्यताया ज्ञानादौ त्वयैव बहुशो निरासादस्मदादीनामपि संयोगविभागौ न स्यातामिति चेत्-न, स्यातामेव / - अत एव द्रव्यत्वमपि दूरपराहतं, द्रव्यमहमिति न प्रतीतिर्लोकानाम् / तस्मान्मूर्तत्वमेव इल्यत्वमिति युक्तमुत्पश्याम इति रामभद्रसार्वभौमैाख्यानाद्र्व्यसाक्षात्कारावलम्बनेनात्मनि महत्त्वासिद्धेः। अथाशुद्धमेतत्सार्वभौममतं, जन्यसत्त्वावच्छिन्नसमवायिकारणतावच्छेदकतया सिद्धस्य