________________ आत्मख्यातिः साक्षात्कारापत्तेर्दुरित्वात् / किञ्चैवमावृतकपाविच्छेदेन यस्य चक्षुःसंयोगान्नोक्तवैजात्यस्य तद्ग्रहस्तस्यैवान्यदा पुरुषान्तरस्य वा तदानों पार्थान्तरावच्छेदेन चक्षुःसंयोगेऽप्यग्रहः स्यादावारकसंयोगस्य विरोधिनः सत्त्वात् / तत्कालीनतत्तत्पुरुषीयमहत्त्वादिप्रत्यक्षं प्रत्येवोक्तप्रतिबन्धकत्वे त्वनावरणकालीनस्य विलक्षणमहत्त्वादिप्रत्यक्षस्यावरणदशायामुत्पत्तिप्रसंगः, न हि तत्रापि सन्निकर्ष विनाऽन्यद्विशिष्य कारणं क्लप्तं येन तद्विलम्बात्तद्विलम्बः स्यात् / स्वप्राचीस्थपुरुषीयोक्तवैजात्यसाक्षात्कारत्वावच्छिन्न एव स्वप्रतीच्यवच्छिन्नावरकसंयोगत्वेन प्रतिबन्धकत्वे तु द्रव्यचाक्षुषेऽप्येवं भित्त्यादिसंयोगप्रतिबन्धकत्वेन निर्वाहे व्यवहितार्थादर्शनान्यथानुपपत्त्या चक्षुःप्राप्यकारित्वसाधनप्रयासवैफल्यापत्तिरिति न किंचिदेतत् / समवायसम्बन्धावच्छिन्नावारकसंयोगाभावावच्छेदकावच्छिन्नचक्षुःसंयोगवत्समवेतसमवेतत्वस्योक्तवैजात्यग्रहे प्रत्यासत्तित्वात्तत्साक्षात्कारपयोजकतयापि चक्षुरादिसंयोगनिष्ठवैजात्यान्तरस्वीकाराद्वा नार्धनिखातस्थलीयवैजात्यस्य निर्विकल्पकाप. त्तिरित्यपि केचित् ,-तदप्यसत् / सन्निकर्षे आवश्यकसंयोगाभावस्य निवेशे चक्षुःसंयोगवृत्तिजात्यन्तरकल्पने गौरवात् , आधारताविशेषस्य सन्निकर्षमध्ये निवेश एव लाघवादिति दिक् / किं चात्मनो विभुत्वे ज्ञानादीनां ज्ञानाद्यभावविरोधोऽवच्छेदकगर्भ एव कल्पनीय इत्यपि गौरवम् / अस्माकं तु तदगर्भस्यैव तद्विरोधस्य कल्पनारलाघवम् / अपि चावयवावयविनोरत्यन्तभेदवादिनामात्मविभुत्ववादिनां मते शरीरावयवावच्छिन्नानामात्मगुणानां कथं शरीरावच्छिन्नत्वम् ? न ह्यवयवसंयोगजावयविसंयोगतदवयवावच्छिन्नज्ञानजमवयव्यवच्छिन्नज्ञानं परैरभ्युपगम्यते / चेष्टावदवच्छिन्नत्व एव निर्भरे तु शरीरतदवयवानुगतचेष्टासमवायिकारणतावच्छेदकाभावादिन्द्रियाणां निश्चेष्टत्वे मानाभा वाद् , घटादिवृत्तिचक्षुरवयवावच्छेदेनाप्यात्मगुणोत्पत्तिप्रसंग इति शरीरपरिमाणत्वं विनात्मनो गुणानां तदवच्छिन्नत्वमेव दुर्घटमिति ध्येयम् / *एतेनादृष्टं स्वाश्रयसंयुक्ते आश्रयान्तरे कारभते एकद्रव्यत्वे सति क्रियाहेतुगुणत्वाद्वेगवदित्यनुमानादात्मविभुत्वसिद्धिः स्वाश्रयासंयुक्तस्तम्भा दिचलनहेतौ मुशलहस्तसंयोगे व्यभिचारवारणाय सत्यन्तं, रूपादौ व्यभिचारवारणाय विशेष्यं, स्वाश्रयसंयुक्तलोहादिभ्रामकेऽयस्कान्ते व्यभिचारवारणाय गुणत्वादितीत्यपि निरस्तं, स्वाश्रयसंयोगघटितसम्बन्धेनादृष्टस्यात्मवर्तिनो द्वीपान्तरवर्तिमुक्ताफलाद्याकर्षणहेतुत्वेऽतिप्रसंगाद्धेत्वसिद्धेः / तत्रस्थस्यैवान्यत्र स्थितोपसर्पणहेतुत्वस्य प्रासप्रयत्नादावदर्शनात् , अन्यथा विस्फारितमुखस्य हस्तादिसंचलनहेत्वान्तरालिकप्रयत्नं विना मुखे ग्रासोपसर्पणप्रसंगात् / * एषाऽर्थः किञ्चिच्छन्दभेदेन न्यायालोकस्य प्रथमप्रकाशे दरीहश्यते /