SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आत्मनः शरीरपरिमाणत्वम् स्वदेहमात्रव्यापकत्वेन हर्षविषादाद्यनेकविवर्तात्मकस्याहमिति स्वसंवेदनस्य प्रत्यक्षसिद्धत्वादात्मनो विभुत्वसाधकत्वेनोपन्यस्यमानः सर्वोऽपि हेतुः कालात्ययापदिष्ट इति संमतिटीकाकारः, तथा चात्मनो मध्यमपरिमाणे तद्गतवैलक्षण्ये च प्रत्यक्षमेव मानमित्युक्तं भवति / युक्तं चैतत् , *तत्परिमाणतद्गतवैलक्षण्ययोरयोग्यत्वकल्पने गौरवात् / अयोग्यत्वस्य प्रतिबन्धकत्वे विश्रामात् / न चैवमात्मा विभुर्न वेति वादिनां संशयानुपपत्तिर्ज्ञानप्रामाण्यसंशयात्तदुपपत्तेः, न चाणुना मनसा शरीरव्यापकात्मसन्निकर्षाभावात्कथं तस्य शरीरपरिमाणत्वग्रह इति शंकनीयम् , तत्तदात्मनिष्ठलौकिक. विषयत्वतत्तदात्मसमवेतनिष्ठलौकिकविषयत्वसम्बन्धेन मानसोत्पत्तिं प्रति यथाक्रमं तदात्मत्वतदात्मसमवेतत्वतदात्मसमवेतसमवेतत्वसम्बन्धेन तत्तदात्मत्वेनैव हेतुत्वात् , आत्ममनःसंयोगादिसन्निकर्षाणां स्वतन्त्रैरेवानभ्युपगमात् , जन्यसाक्षात्कारमात्रस्य सन्निकर्षजन्यत्वे मानाभावात् , उक्तरीत्यात्मभेदेन कार्यकारणभावभेदे साम्प्रदायिकोक्तरीत्या कारणतावच्छेदके मनःसंयुक्तसमवायतत्समवेतसमवाययोः कार्यतावच्छेदके तत्पुरुषीयत्वप्रवेशेन तत्कार्यतावच्छेदके च गौरवात् / अस्तु वा मनसोऽपि शरीरपरिमाणत्वात्सर्वशरीरावच्छिन्नतत्सम्बन्धादात्मपरिमाणग्रहः, अणुत्वे तु तस्य सर्वाङ्गीणसुखानुभवस्यापि दुःसमाधानत्वापत्तेः / उक्तावच्छिन्नत्वं चाधारताविशेषपरिचायकं न तु सम्बन्धमध्ये निविशते / अत एव भूयोवयवावच्छेदेन चक्षुःसंयोगाभावान्नार्द्धनिखातवंशादेxिहस्तादिपरिमाणग्रह इति परेषामभिमतम् / + भूयोऽवयवावच्छिन्नत्वोपलक्षितसमवायावच्छिन्नाधारताविशेषेण 'चक्षुःसंयोगवत् ' समवेतत्वस्य महत्त्वादिग्राहकस्याभावान्न तद्ग्रह इति तदुक्तिपरमार्थः / अन्यथा यावदवयवसन्निकर्षस्य कुत्राप्यसंभवादनेकतत्संयोगस्य चातिप्रसञ्जकत्वा(द्) भूयोऽवयवावछिन्नत्वाभिधानमनर्थकं स्यात् / ____ यत्तु—विषयतासम्बन्धेन परिमाणसाक्षात्कारत्वावच्छिन्नं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन तत्तदावरकसंयोगत्वेन प्रतिबन्धकत्वान्नार्धनिखातवंशादिपरिमाणग्रहो यद्वाऽर्धनिखातवंशादेमहत्त्वादिकं गृह्यत एव महानय वंश इति प्रतीतेस्तदवान्तरवैजात्यं तु नानुभूयत इति तत्तद्वैजात्यग्रह प्रत्यावश्यकसंयोगस्य विरोधिता। न च निखातानिखातसदृशवंशयोः सन्निकर्षदशायां तन्महत्त्वादिवृत्तिवैलक्षण्यानुभवाद्वैजात्यप्रत्यक्षं प्रत्यावारकसंयोगानां प्रतिबन्धकस्वासंभव इति वाच्यम् , तादृशवैलक्षण्यप्रकारकप्रत्यक्षं प्रत्येव तेषां विरोधित्वाद्विशेष्यस्वं प्रतिबध्यतावच्छेदकः सम्बन्धः स्वाश्रयसमवेतत्वं च प्रतिबन्धकतावच्छेदक इत्यनतिप्रसंगात् / न चैवं निखातसन्निकर्षातादृशवैलक्षण्यनिर्विकल्पकापचिरिष्टत्वादिति मथुरानाथादिभिरभिहितं-तत्तच्छम् / एवमपि निखातसन्निकर्षान्महत्त्वप्रकारकतादृशवैलक्षण्यविशेष्यक * एष एवार्थ उपाध्यायः स्वकृतन्यायालोकस्य प्रथमप्रकाशे प्रतिपादितः / (मुद्रितन्यायालोकः, पृ. 31-31) ___ + एषोऽप्यर्थः स्वकृतनयोपदेशग्रन्थस्य नयाभूततरंगिणीटीकायामभिहितः।
SR No.004308
Book TitleNavgranthi
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherYashobharti Jain Prakashan Samiti
Publication Year1981
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy