________________ मात्मख्यातिः द्रव्यत्वस्यात्मन्यपि सत्त्वाजन्यसत्त्वावच्छिन्नं प्रति द्रव्यत्वेनासमवायिकारणत्वे समवायेन नीलादौ स्वाश्रयसमवेतत्वेन. नीलादेहेतुत्वेनावयवगुणादावपि निलाद्युत्पादप्रसंगात् / न च स्वसमवा यिसमवेतत्वं स्वसमवायिनिष्ठसमवायप्रतियोगित्वं, तच्च प्रतियोगिभेदेन भिन्नमिति द्रव्यनिष्ठेन तेन नीलादौ हेतुत्वान्नोक्तापत्तिरिति वाच्यम् , समवायप्रतियोगित्वं समवायिद्रव्यव्यक्तिभेदादेव भिन्नं, न तु प्रतियोगिभेदेन गौरवादित्यभ्युपगमात् / न च स्वाश्रयसमवेतत्वविशिष्टद्रव्यत्वसम्बन्धेन नीलादेरसमवायिकारणत्वमस्त्विति वाच्यम् , स्वाश्रयसमवेतत्वद्रव्यत्वयोर्विशेषणविशेष्यभाबेन गुरुतरकार्यकारणभावद्वयापत्तेः / न च स्वाश्रयसमवेतत्वद्रव्यत्वोभयसम्बन्धेन तदस्त्विति वाच्यम्, नीलपीतादीनामनन्तानां कारणतावच्छेदकसम्बन्धकोटौ द्रव्यत्वप्रवेशापेक्षया सत्त्वावच्छिन्ने द्रव्यत्वेन पृथक्कारणताया एव लघुत्वात् / न च तथापि तत्तत्क्रियाधीनविभागसंयोगोत्पत्तेः पूर्वोत्तरदेशनियमान्यथानुपपत्त्या तत्तद्र्व्यव्यक्तित्वेन हेतुत्वावश्यकतया यावद्विशेषसामग्रीवाधादेवावयवगुणादौ नीलाद्यनुत्पादात् सामान्यतो द्रव्यत्वेन न कारणत्वमिति वाच्यम् , तथापि सत्त्वावच्छिन्न प्रति सामान्यतो द्रव्यत्वेन समवायिकारणत्वावश्यकत्वात् / अन्यथा विनश्यदवस्थद्रव्येनापि स्वनाशोत्पत्तिक्षणे गुणकर्मणोर्जननापत्तेः / तत्तद्र्व्यव्यक्तित्वेन समवायिकारणतासु गुणकर्मणोरसमवायिकारणतासु वा कार्यसहवर्तित्वप्रवेशे महागौरवात् / येषां येषां हि कार्यसहवर्तित्वेन हेतुत्वं सामग्रग्यवहितोत्तरत्वस्य कार्योत्पत्तिव्याप्यत्वे तत्तत्कारणाधिकरणत्वे सतीत्यपि विशेषण देयमितीति चेत्-न, विनश्यदवस्थद्रव्येण गुणकर्मजननापत्तिवारणाय मूर्तत्वेनैव लाघवाद्धेतुत्वसिद्धावात्मसाधारणद्रव्यत्वासिद्धेः / किं च सत्ता च न द्रव्यगुणकर्मवृत्तिरेका प्रत्यक्षसिद्धा जातिधर्मादीनामतीन्द्रियत्वेन तत्र प्रत्यक्षायोगाज्जात्यादावपि सद्व्यवहाराच्च, घटादौ सद्व्यवहारश्च वर्तमानत्वादिनिबन्धन इति शिरोमणिनैवाभिधानात् सत्ताया एव जातित्वासिद्धेः, तदवच्छिन्नजनकतावच्छेदकत्वेन द्रव्यत्वसाधनेऽसिद्धमसिद्धेन साधयतो भवतो महानैयायिकापचिरिति न किंचिदेतत् / वस्तुतः संसार्यात्मपरिमाणे शरीरनामकर्मपरिणतिविशेषः सिद्धात्मपरिमाणे च चरमभवीयत्रिभागहीनावगाहनापरिणामो योगनिरोघजनितो हेतुरिति नित्यमहत्त्वादिति हेतुर्जेनं प्रत्यन्यथासिद्धेः / __नन्वेवं शरीरपरिमाणभेदे आत्मपरिमाणभेदादात्मभेदापतिः परिमाणभेदे द्रव्यभेदनियमादिति चेत्-न, एकत्र घटे श्यामरक्तादिभेदेन घटभेदेऽपि तद्घटव्यक्त्यभेदवत्परिमाणभेदेन तद्विशिष्टात्मभेदेऽपि तदात्मव्यक्त्यभेदोपपत्तेः, विशिष्टभेदस्य पर्यायनियतस्य शुद्धद्रव्याभेदापरिपन्थित्वात् / इत्थमेव क्षणभेदसमर्थनं संगच्छते शुद्धक्षणभेदस्तु पुञ्जात्पुञ्जान्तरोत्पत्ति स्वीकुर्वतां बौद्धानामेव सिद्धान्ते नास्माकम् / विशिष्टानतिरेके विशिष्टभेदोऽपि दुर्घट इति चेत्, तदपि कथंचिदतिरिच्यतां