________________ दर्भावतीमण्डन-परमप्रभावक-श्रीलोढणपार्श्वनाथाय नमः // न्यायविशारद-न्यायाचार्य-महोपाध्यायश्रीमद्यशोविजयगणिविरचिता आत्मख्यातिः। ऐ नमः // ऐन्द्रवृन्दनतं नत्वा वीरं तत्त्वार्थदेशिनम् / आत्मख्यातिं करोत्युच्चैर्यशोविजयवाचकः // यात्मनः शरीरपरिमाणत्वम्। .. आत्मा तावद् ज्ञानेच्छाद्याश्रयः पृथिव्यादिद्रव्येभ्यो भिन्न इति निर्विवादं सर्वेषामास्तिकानां, परं स विभुर्वा मध्यमपरिमाणो वेति विप्रतिपत्तिः / तत्र विभुरेवेति नैयायिकादयस्तद्वयं न मृष्यामहे / आत्मनो विभुत्वे गौरवम् आत्मनो विभुत्वे सुषुप्त्युपधायकात्ममनःपूर्वसंयोगनाशोत्पत्तिकाले तदुत्तरं च सुषुप्तिक्षणे आत्ममनोविभागकालोत्पन्नविशेषणज्ञानादिना ज्ञानाद्युत्पादप्रसंगस्य दुरित्वात्तदानीमप्यात्मनि पुरुषातरीयमनःसंयोगसत्त्वात् / न च तत्तन्मनःसंयोगत्वेन तत्तदात्मसमवेतात्मविशेषगुणत्वेन हेतुहेतुमद्भावान्नायं दोष इति वाच्यम् / आत्मनो विभुतायां स्वशरीरावच्छेदेन स्वात्मनि स्वीयमनःसयोगोत्पत्तिदशायां स्वशरीरावच्छेदेन पुरुषान्तरीयात्मन्यपि स्वीयमनःसंयोगोत्पत्त्या पुरुषान्तरीयात्मन्यपि स्वात्मसमवेतात्मवेशेषगुणोत्पादप्रसंगात् / न च तदात्मसमवेतविशेषगुणत्वावच्छिन्नं प्रति तदात्मत्वेनापि समवायिकारणत्वान्नायमतिप्रसंग इति वाच्यम् , प्रत्येकात्मस्थल एव कार्यकारणभावद्वयापत्तौ महागौरवात् / शरीरपरिमाणत्वनये तु सामान्यत एव समवायेन ज्ञानादौ स्वजन्योपयोगव्यापारसम्बन्धेन मनःसंयोगत्वेनैक एव हेतुहेतुमद्भाव इति लाघवात् / __व्यापारसम्बन्धानुधावनं सुषुप्तौ ज्ञानाद्यनुत्पादाय / तदानीमुपयोगरूपव्यापारस्याकरे निरस्तबात् / अस्तु वा सुषुप्तिव्यावृत्तमनःसंयोगविशेषत्वेनव सामान्यतो हेतुता। एवमप्युक्तगौरवा