________________ 2 / आत्मख्यातिः भावात्। विभुत्वे त्वेकत्र मनःसंयोगविशेषोत्पादेऽन्यात्मन्यप्यत्रावर्जनीयहेतुकतया तदापत्तेरुक्तानन्तकार्यकारणभावकल्पनागौखं दुष्परिहरमिति / एतेन - तत्तदात्मत्वविशिष्टसमवायसम्बन्धेन तत्तदात्मनिष्ठत्वोपलक्षितसमवायसम्बन्धावच्छिन्नाधारताविशेषसम्बन्धेन वाऽऽत्मविशेषगुणत्वावच्छिन्नं प्रति तेनैव सम्बन्धेन तत्तन्मनःसंयोगत्वेन कार्यसह वृत्तितया हेतुत्वम् , आत्मविशेषगुणत्वं चात्मेतरसमवेता. समवेतधर्मसमवायित्वं विभुविशेषगुणत्वव्याप्यो जातिविशेषो वा / न चोभयरूपस्यापि तस्य नित्यवृत्तितया न कार्यतावच्छेदकत्वमिति वाच्यम् , समवायकालिकविशेषणत्वोभयसम्बन्धेनात्मविशेषगुणत्ववत्त्वरूपस्वजन्यात्मविशेषगुणत्वस्यैव कार्यतावच्छेदकत्वात् / वस्तुतः कार्यतावच्छेदकस्य नित्यसाधारण्येऽपि प्रकृते बाधकाभावात् / नित्यज्ञानादिमव्यावृत्ताधारत्वस्य कार्यतावच्छेदकसम्बन्धतया कार्योत्पत्त्यव्यवहितपूर्वत्वस्य च कारणताघटकतया नित्यज्ञानादावनतिप्रसंगात् / तत्र मनःसंयोगजन्यत्वव्यवहारापत्तेश्च / जन्यतावच्छेदकतानियामकसम्बन्धेन जन्यतावच्छेदकधर्मवत्त्वस्यैव जन्यत्वव्यवहारनियामकत्वेनैव निरासादित्यपि निरस्तम् , एवमप्यात्मभेदेनानन्तहेतुहेतुमद्भावस्य दुर्निवारत्वात् / किं चैवमपि स्वकीययोरात्ममनसोः संयोगात् स्वशरीरावच्छेदेनात्मविशेषगुणोत्पत्तिदशायां परकीयशरीरेऽप्यवच्छेदकतासम्बन्धेन तदुत्पत्तिवारणाय तच्छरीरत्वविशिष्टावच्छेदकतासम्बन्धेनात्मविशेषगुणत्वावच्छिन्नं प्रति तादात्म्यसम्बन्धेन तच्छरीरत्वेन कारणता वाच्या / तच्छरीर च चैत्रत्वादिजातिविशेषेण ग्राह्य, तथा च विशेषसामग्रीविरहादेव तदानी तादृशपरशरीरे आत्मविशेषगुणसामान्यापत्त्यसंभवः / / स्वात्मसमवेतज्ञानादेः स्वशरीरावच्छिन्नस्यैव संभवादवच्छेदकतया तदुत्पत्तौ च तादाम्येन स्वशरीरस्यैव हेतुत्वात् , परात्मसमवेतज्ञानादेश्च परशरीरे आपादनस्यैवासम्भवात् , सम. वायसम्बन्धेनोत्पत्तिं विनाऽवच्छेदकतासम्बन्धेनोत्पतिविरहादिति. तत्तच्छरीरस्य विशिष् हेतुत्वकल्पयनेऽपि महागौरवम् / ___ आत्मविभुत्वे परात्मशरीरसमवेतत्वावच्छिन्नत्वाभावो ज्ञानादीनां कुत इति प्रश्ने तदजन्यत्वादित्युत्तरे तदपि कुत इति प्रश्ने क्रियासंयोगकार्यकारणभावोक्तयुक्त्या सर्वासामेव समवायिकारणव्यक्तीनां स्वस्वसमवेतं प्रति तादात्म्येन समवायिकारणत्वस्य सर्वासामेव वावच्छेदकव्यक्तीनां स्वस्वावच्छिन्नत्वं प्रति तादात्म्येन 'निमित्तकारणत्वस्यावश्यकतया विशेषसामग्रीविरहादेव परात्मपरशरीरयोरनतिप्रसंग इति त्वन्योन्याश्रयपराहतेरेवानुद्घोष्यम् / अस्माकं तु समुद्घातातिरिक्तस्थले शरीरस्य विशिष्यहेतुत्वाकल्पनाल्लाघवमात्मनः शरीरपरिमाणत्वेनैवानतिप्रसंगात् /