________________ किञ्च गभीरायां नद्यामिति विभक्त्यन्तभागस्य न नदीतीरे लक्षणा, तदाधारताप्रत्ययानापत्त:। प्रत्ययानां प्रकृत्यान्वितबोधकत्वात्। नापि गभीरायां नदीभागस्य तस्याबोधकत्वात् / बोधकत्वे लक्ष्ये विभक्त्यर्थानन्वयापत्तः प्रत्ययानां प्रकृत्यान्वितबोधकत्वात् / न हि भागः प्रकृतिर्येन तदर्थे विभक्त्यर्थान्वय: स्यात् / गभीरायामिति सप्तम्यनापत्तश्च / / अथ विभक्त्यन्तस्यैव गभीरनदीतीराधारत्वलक्षकत्वमिति चेत्, न, अशक्तत्वात् तस्मात्पदद्वय एव विनिगमकाभावाद्विशिष्टनदीतीरे लक्षणा / न चैकपदवैय र्थ्यम् परस्परतात्पर्य ग्राहकत्वादिति सम्प्रदाय: / विस्तरस्त्वस्माकं मणिमरीचिनिबन्धनतात्पर्य्यदीपिकयोरनुसन्धेय: / उपकुम्भमर्धपिप्लीत्यादावप्युत्तरपदलणक्षयैवोपपत्तौ न शक्तिरुपेयते अन्यलभ्यत्वात् / समाहारद्वन्द्वे पाणिपादमित्यादौ पाणिपदं पाणिप्रतियोगिकं पादपदं तु पादसमाहारं लक्षयतीति न पाणिपादसमाहारे शक्तिः / समाहारश्च तुल्यवदेकक्रियान्वयित्वरूपं साहित्यं सेनावनादिवदपेक्षाबुद्धिविशेषविषयत्वं वा। नन्वेवं पाणिपादं वादयेत्यत्रानन्वय: समाहारे वादनकर्मत्वाभावादिति चेत् परस्परया तत्र कर्मत्वान्वयादित्यके। समाहारोत्तरविभक्त्यर्थकर्मत्वादेः समाह्रियमाण एवान्वयः पदव्युत्पत्तिवैचित्र्यादित्यन्ये / पाणिपादं वादयेत्यत्र पाणिपादमात्रप्रतीतेन समाहारे लक्षणा शक्तिर्वा / न चैवं द्विवचनापत्तिः असाधुत्वात् / इतरेतरसमाहारसंज्ञा तू नदीवृद्धयादिवत् पारिभाषिक्येवेति तु तत्त्वम् / इतरेतरद्वन्द्व तु धवखदिराविति स्वरूपद्वयप्रतीतेन लक्षणा शक्तिर्वा / मीमांसकास्तु धवखदिरसाहित्याश्रये लक्षणा / तदाहुः- साहित्ये द्विवचनबहुवचने द्वन्द्वसमासो वेति / साहित्यञ्च तुल्यवदेकक्रियान्वयित्वम् / अत एव यत्कर्तव्यं तदनया सहेत्यत्र पत्न्याः सहभावमात्रं न तु साहित्यम् / यागादौ पत्न्या अनुमतिद्वाराऽन्वयेन तुल्यवदन्वयादित्याहुः / . ___नोलोत्पलमित्यादौ नीलाभेदस्यान्वयविधयैवात्र भासनोपपत्तेः / कर्मधारये न शक्तिर्न वा लक्षणा / अत एव तत्पुरुषात्कर्मधारयोर्बलीयान् / तत्र हि पूर्वपदे सम्बन्धिलक्षणेत्युक्तम् / नञ्तत्पुरुषेऽप्यघट: पट इत्यत्र घटपदं घटसम्बन्धिपरम् / नञ्पदं . चान्योन्याभावे शक्तमेव / संसर्गाभाववाचकं नञ्पदं नान्योन्याभावशक्तमिति चेत्, न, लाघवेन विनिगमनाविरहेण चाभावमात्र एव तच्छक्त्यवधारणात् / ___(इयत एव मूलस्य टीका प्राप्यते)