________________ [13 अथ सम्बन्धे लक्षणैवेति चेन्न / तथापि राजसम्बन्धः पुरुष इति वदनन्वयः स्यादिति तदोषतादवस्थ्यात् / अथ राजपुरुषात्मकसमुदाय एव राजसम्बन्धिपुरुषलक्षणेति चेन्न / शक्तिविरहे लक्षणाया प्रयोगात् स्वशक्यसम्बन्धो हि लक्षणेत्युक्तम् / उच्यते, राजपदं राजसम्बन्धिलक्षक तथा चाभेदेनैव पदार्थद्वयान्वयः / न चैवं कर्मधारयापत्तिः समासपूर्वदशायां पदयोस्तुल्यार्थत्वाभावात् / अन्ये तुं लुप्तषष्ठ्यैवान्वयं बोधयन्ति षष्ठीलोपमजानतस्तु तत्रान्वयप्रत्यय: शक्तिभ्रमाद् राजपदलक्षणया वेति स्वीचक्रुः / वैयाकरणास्तु समासस्थशब्दसमुदायस्य विशिष्टार्थे शक्तिरेव / न चैवं राजपदशक्तिमविदुषोऽपि राजपुरुषादिपदादन्वय: स्यादिति वाच्यम् ? समस्तशक्तिग्रहो ह्यनुशासनात् न चावयवशक्तिग्रहेऽनुशासनग्रहः सम्भवतीति तद् शक्तिगृहेस्य समुदायग्र हे हेतुत्वादित्याहुस्तन्न / अवयव-लक्षणयवोपपत्तौ समुदायशक्तौ मानाभावात, तदुक्तं 'जहत्स्वार्था तु तत्रैव यत्र रूढिविरोधिनी'ति तस्मादन्यथोपपत्तौ समासे शक्तिरयुक्तेति सङ्क्षपः / HT स्यादेतत्, मार तू तत्पूरुषे शक्तिबह शपदा मनि शक्तिरावश्यको न हिं तत्र लक्षणया निर्वाहः तथाहिं कि गोपदं गोस्वामिलक्षक चित्रपदं वा चित्रस्वामिलक्षक, नाद्यः, न हि चित्रस्य, गुवान्वयः सम्भवति तस्य पदार्थैकदेशगत्वात्, अत ऐव जान्त्योऽपि गवानन्वयापत्तेः / अथ गोपदं. चित्रगोस्वामिलक्षक चित्रपदं तु तात्पर्यग्राहकमिति... विनिगन्तुमशक्यत्वात्तस्माद्रिनिगमकाभावात्समुदाये शक्तिरेवेति चेद् अत्रोच्यते विनिगमकाभावादस्तु पदद्वये लक्षणा न तु समुदाये शक्तिरत्यलभ्यत्वात् / . मीमांसकास्तु समुदाय एव लक्षणा। न च समुदायस्य शक्याभावाल्लक्षणानुपपत्ति: स्वबोध्यसम्बन्धो हि लक्षणा, अस्ति च वाक्यस्यापि विशिष्टं बोध्यं, अन्यथा का गतिर्गभीरायां नद्यां घोष इत्याद्वौ। न हि नद्रीपदं तीरलक्षकं गभीरायामित्यनन्वयापत्तेः नहि तीरं गभीरं.नापि गभीरपदं तीरलक्षक नद्यामित्यनन्वयापत्तेः, न हि तीरं नदी तस्मादनन्यंगतिकतया वाक्यमेव गभीरनदीतीरलक्षकमित्याहुः / अत्रोच्यते वाक्यं न विशिष्टार्थबोधकन्तबोधकतावच्छेदकशक्तेरभावादतस्तत्र बोध्यसम्बन्धो लक्षणेति रिक्तं वचः /