________________ 12] अथ सम्बन्धे लक्षणैवेति चेतु, न, तथापि राजसम्बन्धः पुरुष इति तदन्वयः स्यादिति तद्दोषतादवस्थ्यात् / अथ राजपुरुषात्मकसमुदाय एव राजसम्बन्धिपुरुषरूपलक्षणेति चेत्, न, शक्तिविरहे लक्षणाया अयोगात्। स्वशक्यसम्बन्धो हि लक्षणेत्युक्तम् / उच्यते राजपदं राजसम्बन्धिलक्षक तथा चाभेदेनैव पदार्थद्वयान्वयः / न चैवं कर्मधारयापत्तिः समासपूर्वदशायां पदयोस्तुल्यार्थत्वाभावात् / .., अन्ये तु लुप्ता षष्ठय वान्वयं बोधयन्ती सम्बन्ध बोधयति, षष्ठीलोपमजानतस्तु तदन्वयबोधः शक्तिभ्रमातु, राजपदलक्षणा वेति स्वीचक्रः / वैयाकरणास्तु समासस्थले शब्दसमुदायस्य विशिष्टार्थे शक्तिरेव / न चैवं राजपदशक्तिमविदुषोऽपि राजपुरुषादिपदादन्वयप्रत्यय: स्यादिति वाच्यम् / समस्तशक्तिग्रहो ह्यनुशासनात्, न चावयवशक्त्यग्रहेऽनुशासनग्रहः सम्भवतीति तच्छक्तिग्रहस्य समुदायशक्तिग्रहे हेतुत्वादित्याहुः तन्न, अवयवलक्षणयैवोपपत्तेः समुदायशक्तौ मानाभावात् / तदुक्तं- “जहत्स्वार्था तु तत्रैव यत्र रूढिविरोधिनी''इति, तस्मादन्यथोपपत्तौ समासे शक्तिरयुक्तेति सङ्क्षपः / स्यादेतत् मास्तु तत्पुरुषे शक्तिर्बहुव्रीहौ तु चित्रगुपदे चित्रगोस्वामिनि शक्तिरावश्यकी, नहि तत्र लक्षणाया निर्वाहः / तथा हि गोपदं गोस्वामिलक्ष कं चित्रपदं च चित्रस्वामिलक्षकम् / नाद्यः, नहि चित्रत्वस्य गवान्वयः सम्भवति तस्य, पदार्थंकद्रेशत्वात, अत एव नान्त्योऽपि गवान्वयानापत्तेः / अथ गोपदं चित्रगोस्वामिलक्ष कं चित्रपदं तु तात्पर्यग्राहकमिति चेत्, न, चित्रपदं चित्रगोस्वामिलक्षक गोपदं तु तात्पर्य्यग्राहकमिति विनिगन्तुमशक्यत्वातु, तस्माद्विनिगमकाभावात्समुदायशक्तिरेवेति चेत्, अत्रोच्यते-विनिगमकाभावादस्तु पदद्वये शक्तिरन्यलभ्यत्वात् / मीमांसकास्तु समुदाय एव लक्षणा / न च समुदायस्य शक्त्यभावाल्लक्षणानुपपत्तिः स्वबोध्यसम्बन्धो हि लक्षणा, अस्ति च वाक्येऽपि विशिष्टं बोध्यम् / अन्यथा का गतिर्गभीरायां नद्यां घोष इत्यादौ / न हि नदीपदं तीरलक्ष कं गभीरायामित्यन्वयापत्ते: / न हि तीरं गभीरम् / नापि गभीरपदं तीरलक्षकं नद्यामित्यनन्वयापत्तेः / न हि तीरं नदी, तस्मादनन्यगतिकतया वाक्यमेव.. गभीरनदीतीरलक्षकमित्याहुः / अत्रोच्यते / वाक्यं न विशिष्टार्थबोधकं तद्बोधकतावच्छेदकशक्तेरभावात् / अतस्तत्र स्वबोध्यसम्बन्धो लक्षणेति रिक्तं वचः /