________________ 11 अथैवं चरमप्रवत्ता घटमात्रशक्तिकल्पना कथं प्रथमप्रवृत्तां बलवती कार्यत्वान्वितशक्तिकल्पनां बाधितुमिष्टेति चेत्प्रथमकल्पनाया बलवत्त्वासिद्धः, न हि प्रथमप्रवृत्तमेव बलवच्चन्द्रतारकाद्यल्पतायाः प्रथमप्रतीताया: शास्त्रजतन्महत्त्वप्रतीत्या बाधानापत्तेः / चरमकल्पनाया लाघवसहायतया बलवत्त्वाच्च / किञ्चैवं काव्यादिभ्योऽनुभवसिद्धोऽन्वयानुभवो न स्यात् / न चासंसर्गाग्रहमानं तत्र न तु संसर्गानुभव इति वाच्यम् / घटमानयेश्यत्रापि तदापत्तेः; तथा च गतं शब्दप्रामाण्यप्रत्याशयापि / किं चैवमर्थवादरूपाणां श्रुतिस्मृतीतिहासपुराणादीनामप्रामाण्यं स्यात्तथा च सुष्ठपहासितं मित्रैः प्रसिद्ध एव लोकेऽस्मिन् बुद्धबन्धुः प्रभाकर इति प्रतारकः कश्चिद्वर्णव्यत्यासलिपिसादृश्याभ्यां प्रभाकर इति गृहीतो लोकैरिति युक्तमुत्पश्यामः / ननु यदि शक्तिग्रहः सहकारी तदा गङ्गापदात्तीरप्रत्ययो न स्यादिति चेन्न / शक्तिर्हि न तत्त्वेन प्रयोजिका किन्तु वृत्तित्वेन / अस्ति च गङ्गापदस्यापि तीरे वृत्तिर्लक्षणैव / अथ केयं लक्षणा नाम शक्यादशक्योपस्थितिर्लक्षणेत्येके, तन्न / उपस्थितिहेतुर्हि वृत्तिन्नु सैव / अन्वयेऽपि तात्पर्यस्य लक्षणात्वापत्तेः किं च तात्पर्यनिर्वाहिका हि वृत्तिर्न तु तदात्मिकैव शक्तेरपि तत्त्वापत्तेः / उच्यते, स्वशक्यसम्बन्धो लक्षणा, अस्ति हि गङ्गापदशक्यः प्रवाहविशेषस्तत्सम्बन्धस्तीर इति / सा च लक्षणा द्विविधा गौणी शुद्धा च / तत्र सादृश्यात्मकः शक्यसम्बन्धो गौणी यथा गौर्वाहीक इति / तदन्या शुद्धा यथाऽऽयुघृतमिति / ननु यद्येते एव वृत्ती कथन्तर्हि राजपुरुष इत्यादौ षष्ठ्यर्थलाभः, न हि राजपदं सम्बन्धशक्तम् / अथ सम्बन्धोऽन्वयविधया भासते नीलो घट इत्यत्राभेद इवेति चेन्न / राजपुरुष इत्यत्रापि तदापत्तेः / अथ नामार्थयोरभेदेनैवान्वयो न त्वन्यथा तथैव व्युत्पत्तः, राज्ञः पुरुष इत्यत्र तु न नामार्थयोरन्वय: किन्तु विभक्त्यर्थनामार्थयोरिति चेतहि राजपुरुष इत्यत्र कयन्तयोरन्वयः इति स्वयमेव विभावय /