________________ 10] अथैवं चरमप्रवृत्ता घटमात्रशक्तिकल्पना कथं प्रथमप्रवृत्तां बलवती कार्यतान्वितशक्तिकल्पनां बाधितुमिष्टेति चेत् प्रथमकल्पनाया बलवत्त्वासिद्धः, न हि प्रथमप्रवृत्तमेव बलवच्चन्द्रतारकाद्यल्पतायाः प्रथमप्रतीतायाः शास्त्रजतन्महत्त्वप्रतीत्या बाधनापत्तेः / चरमकल्पनाया लाघवसहायतया बलवत्त्वाच्च / किञ्च एवं काव्यादिभ्योऽनुभवसिद्धोऽन्वयानुभवो न स्यात् / न च संसर्गाग्रहमानं तत्र न तु संसर्गानुभव इति वाच्यम् ? घटमानयेत्यत्रापि तदापत्तेः तथा च गतं शब्दप्रामाण्यप्रत्याशयापि / किं चैवमर्थवादरूपायां श्रुतिस्मृतीतिहासपुराणादीनामप्रामाण्यं स्यात् / तथा . च सुष्ठपहसितं मित्रैः, प्रसिद्ध एव लोकेस्मिन् बुद्धबन्धुः प्रभाकर इति / प्रतारकः कश्चिद्वर्णव्यत्यासलिपिसादृश्याभ्यां प्रभाकर इति गृहीतो लोकैरिति युक्तमुत्पश्यामः / ननु यदि शक्तिग्रहः सहकारी. तदा गङ्गापदात्तीरप्रत्ययो न स्यादिति चेत्, न, शक्तिहि न तत्त्वेन प्रयोजिका किन्तु वृत्तित्वेन, अस्ति च तीरे गङ्गापदस्यापि वृत्तिर्लक्षणैव / अथ केयं लक्षणा ? शक्यादशक्योपस्थितिलक्षणेत्येके, तन्न, उपस्थितिहेतुहि वृत्तिर्न तु सैव / अशक्ये तात्पर्य लक्षणेत्यन्ये, तन्न, अन्वये तात्पर्य्यस्य लक्षणात्वापत्तेः किञ्च तात्पर्यनिर्वाहिका हि वृत्तिर्न तु तदात्मिकैव शक्तेरपि तत्त्वापत्तेः / उच्यते स्वशक्यसम्बन्धो लक्षणा, अस्ति हि गङ्गापदशक्य: प्रवाहविशेषः तत्सम्बन्धस्तीरे इति / सा चं लक्षणा द्विविधा गौणी शुद्धा च, सादृश्यात्मकः शक्यसम्बन्धो गौणी, यथा गौर्वाहीक इति, तदन्या शुद्धा यथा आयुघृतमिति / ननु यद्यते एव वृत्ती कथं तहि राजपुरुष इत्यादौ षष्ठ्यर्थलाभ: ? न हि राजपदं सम्बन्धे शक्तम्, अथ सम्बन्धोऽन्वयविधया भासते नीलो घट इत्यादावभेदवदिति चेत्, न, राजा पुरुष इत्यादावपि तदापत्तेः / अथ नामार्थयोरभेदेनैवान्वयो न त्वन्यथा, तथैव व्युत्पत्तेः / राज्ञः पुरुष इत्यत्र न नामार्थयोरन्वय: किन्तु विभक्त्यर्थनामार्थयोरिति चेत् तर्हि राजपुरुष इत्यत्र कथं तयोस्तथान्वय इति स्वयमेव विभावय।