________________ गव्येव शक्तिर्न तु गोत्वेऽपि गौरवात् / न चैवं गोत्वप्रत्ययानापत्तिः गोत्वावच्छेदकशक्तिग्रहस्य गोत्वविशिष्टप्रत्यायकत्वादिति तत्त्वम् / यदि गोत्वविशिष्ट शक्तिस्तदा गौ: शुक्ल इत्यतो गोशुक्लयोरभेदप्रत्ययों न स्यात्तस्यान्वयरूपस्याशक्यत्वात् / न च शब्दादशक्यमपि भासतेऽतिप्रसङ्गादुच्यते / गोशक्तं पदमेव गवान्वयं बोधयति न चाशक्यबोधने घटमपि बोधयेदिति वाच्यम् / गोशक्तं हि पदं गवान्वयबोधजनकं न च घटो गवान्वयो येनातिप्रसङ्गः स्यातु / भट्टास्त्वन्वयविशिष्ट शक्तिग्रहादन्वयेऽपि शक्तिरेवेत्याहुस्तन्न / अन्वयस्यान्यलभ्यत्वाद् अनन्यलभ्यस्य च शब्दार्थत्वादन्यथा लक्षणोच्छेदापत्ति: / प्राभाकरास्तु कार्यत्वान्वितपदानां शक्तिस्तथा हि प्रयोजकवाक्यश्रवणानन्तरं प्रयोज्यस्य प्रवृत्तिमुपलभमानो बालस्तत्प्रयोजकतया कार्यताविशिष्टज्ञानमनुमिनोति स्वप्रवृत्तौ तेन कार्यत्वविशिष्टज्ञानस्य हेतुत्वावधारणादतस्तद्धत्वाकाङ्क्षायामुपस्थितत्वाच्छब्दमेव तथाऽवधारयति ततस्तन्निर्वाहिकां शक्ति कार्यत्वान्विते शब्दत्वावच्छेदेन कल्पयति / तदनु चावापोद्वापाभ्यां घटादिपदे शक्ति गृह्णानः प्रथमकल्पानुरोधात कार्यत्वान्विते घटादौ शक्ति कल्पयति / न तु केवलघटादावाद्यव्युत्पत्तिविरोधात् / इत्थञ्च यत्र कार्यतावाचकपदसमभिव्याहारों नास्ति तद्वाक्यमर्थवादरूपमूलकमेव / व्यवहारस्त्वसंसर्गाग्रहातु / ननु सर्वेषां पदानां कार्यतान्वितवाचकत्वात्तद्वाचकपदसमभिव्याहारो नास्तीत्यसङ्गतमसङ्गतञ्चार्थवादस्याप्रामाण्यमिति / अत्रोच्यते द्विविधा हि पदशक्तिरनुभाविका स्मारिका च तत्रानुभाविका कार्यतान्विते स्मारिका च जातौ तथा च घटादिपदं घटपदात्कार्यत्वानुपस्थितौ कथं तदन्वितबोध जनयेत् कार्यत्वान्वयबोधे तदुपस्थितेरपि हेतुत्वादिति नार्थवादस्य प्रामाण्यमित्यूचुस्तन्न / पावापोद्वापाभ्यां लाघवाद् घटादिमात्र एव शक्तिग्रहो न तु कार्यत्वान्वयेप्यन्यलभ्यत्वात् / प्रथममन्यलभ्यत्वं बालस्य नोपस्थितमिति चेत्प्रथमतहि कार्यत्वान्वयेऽपि शक्तिग्रहोऽस्तु यदा च तदुपस्थितं तदा घटमात्रशक्तिग्रहोऽस्तु सा बाध्यता गौरवीत् / / - -?...