________________ (नव्यास्तु) गव्येव तिर्न तु गोत्वेऽपि गौरवात् / न चैवं गोत्वप्रत्ययानापत्तिः, गोत्वावच्छेदक(च्छिन्न)शक्तिग्रहस्य गोत्वविशिष्टप्रत्यायकत्वादिति तत्त्वम् / स्यादेतद् यदि गोत्वविशिष्टे शक्तिस्तदा गौः शुक्लेत्यतो गोशुक्लयोरभेदप्रत्ययो न स्यात् तस्यान्वयरूपस्याशक्यत्वात् / न च शब्दादशक्यमपि भासतेऽतिप्रसङ्गात् / उच्यते / गोशक्तं पदमेव गवान्वयं बोधयति / ___ न चाशक्यबोधने घटमपि बोधयेदिति वाच्यम् गोशक्तं हि पदं गवान्वयबोधजनकं न च घटो गवान्वयो येनातिप्रसङ्गः स्यात् / भट्टास्तु अन्वयविशिष्टे शक्तिग्रहादन्वयेऽपि शक्तिरेवेत्याहुस्तन्न अन्वयस्यान्यलभ्यत्वात् / अनन्यलभ्यस्य च शब्दार्थत्वात् / अन्यथा लक्षणोच्छेदापत्ति: / प्राभाकरास्तु कार्यतान्वितपदानां शक्तिस्तथा हि प्रयोजकवाक्यश्रवणानन्तरं प्रयोज्यस्य प्रवृत्तिमुपलभमानो बालस्तत्प्रयोजकतया कार्यताविशिष्टज्ञानमनुमिनोति स्वप्रवृत्तौ तेन कार्यत्वविशिष्टज्ञानस्य हेतुत्वावधारणादतस्तद्धत्वाकाङ्क्षायामुपस्थितत्वाच्छब्दमेव तथाऽवधारयति ततस्तन्निर्वाहिकां शक्ति कार्यतान्विते शब्दत्वावच्छेदेन कल्पयति / तदनु चावापोद्वापाभ्यां घटादिपदे शक्ति गृह्णानः प्रथमकल्पनानुरोधाकार्यतान्विते घटादौ शक्ति कल्पयति न तु केवलघटादावाद्यव्युत्पत्तिविरोधात् / इत्थञ्च यत्र कार्यतावाचकपदसमभिव्याहारो नास्ति तद्वाक्यमर्थवादरूपमूलकमेव / व्यवहारस्त्वसंसर्गाग्रहात् / / ननु सर्वेषां पदानां कार्यतान्वितवाचकत्वात्तद्वाचकपदसमभिव्याहारो नास्तीत्यसङ्गतमसङ्गतञ्चार्थवादस्याप्रामाण्यमिति / अत्रोच्यते-द्विविधा हि पदशक्तिः अनुभाविका स्मारिका च, तत्रानुभाविका कार्यतान्विते स्मारिका च जातौ तथा च घटादिपदं घटपदात्कार्यत्वानुपस्थितौ कथं तदन्वितबोध जनयेत् कार्यत्वान्वयबोधे तदुपस्थितेरपि हेतुत्वादिति नार्थवादस्य प्रामाण्यमित्यूचुस्तन्न / आवापोद्वापाभ्यां लाघवाद् घटादिमात्र एव शक्तिग्रहो न कार्यतान्वयेऽप्यन्यलभ्यत्वात् / प्रथममन्यलभ्यत्वं बालस्य नोपस्थितमिति चेत् प्रथमं तहि कार्यतान्वयेऽपि शक्तिग्रहोऽस्तु यदा च तदुपस्थितं तदा घटमात्रशक्तिग्रहोऽस्तु सा बाध्यतां गौरवात् /