________________ सर्गादौ भगवानीश्वरः शरीरद्वयं परिगृह्य तथा व्यवहरति / ततस्तद् व्यवहाराद् बालः पूर्ववत् सङ्केतं गृह्णातीति किम नुपपन्नम् ? ईश्वर एव किं मानमिति चेत् सर्गादावन्यथा व्यवहारानुपपत्तिरेव / ननु पूर्वसर्गसिद्ध-सर्वज्ञत्वाद् मन्वादय एव व्यवहार-प्रवृत्तिहेतवः सन्त्विति चेद् न, तेषां सर्वज्ञत्वे मानाभावाद्, व्यवहारान्यथाऽनुपपत्तिरेव मानमिति चेद् न पूर्वसर्गे व्यवहारस्यैवमप्यनुपपत्तेः तत्राप्येकः कल्प्यतामिति चेद् न / प्रतिसर्गभूयसां तथा कल्पनायां गौरवात्, अस्त्वेक एव सर्वत्र मूलमिति चेत् स एवास्माकं भगवानीश्वर इति दिक् / स्यादेततु, यदि शक्ति ग्रहः सहकारी तदा घटशब्दात् पटप्रत्यय: किं न स्याद् ? अस्ति च तस्य शक्तिग्रहो घटे। अथ यः शब्दो यत्र गृहीत-शक्तिक: स तदर्थ बोधयतीति चेत् तहि 'काश्यां गौरस्तीति वाक्याद्देशान्तरीयस्य गोः प्रत्ययो न स्यात्, न हि तस्य काशीस्थायां गवि शक्तिग्रहोऽस्ति तस्या एवाप्रतीतेः / मीमांसकास्तु गवादि-पदानां गोत्व एव शक्तिः कथं तहि व्यक्तिलाभ इति चेत् तदाक्षेपादित्याहुः / ननु कोऽयमाक्षेपस्तस्यार्थापत्तिराक्षेपः, गोत्वं हि स्वाश्रयं विनाऽनुपपद्यमानमिति तमाक्षिपतीति भट्टास्तन्न / अनुपपत्तिज्ञानमन्तरेणापि गौरस्तीत्यतो गोत्व-विशिष्ट-व्यक्ति-प्रतीते:, तस्मात् समानवित्तिवेद्यत्वमाक्षेप इति गुरवः / यावती हि जातिधीर्व्यक्ति हि विषयीकरोतीति व्यक्तेर्लाभः / इदमेव कथमिति चेज्जातिभानसामग्र्या व्यक्तिबोधकत्वमिति गृहाण / यद्वा जातिशक्तिरेव व्यक्ति बोधयति / न चान्यशब्दशक्त्याऽन्यबोधनेऽतिप्रसङ्गः, गोत्वशक्तं पदं गोत्वविशिष्टं बोधयतीत्यनतिप्रसङ्गादन्यथाऽनुपपत्त्या तथैव कल्पनादिति तदपरे न क्षमन्ते / तथा सति गोत्वमस्तीत्यतोऽपि गोत्वविशिष्ट-प्रत्ययापत्तेः / न च गोपदस्य गोत्व इव गोत्वपदस्यापि गोत्वत्वे शक्तिरस्त्विति वाच्यम् ! गोपदस्य गवि शक्तौ व्यभिचाराद् गोत्वे शक्तिकल्पना न हि गोत्वपदस्यापि गोत्वे शक्तौ व्यभिचार: सम्भवति गोत्वस्यैकत्वात् तस्माद् गोत्वविशिष्ट एव शक्तिः / न चोक्तदोषः गोत्वसामान्य- लक्षणया सकलस्य गोरुपस्थितौ सर्वत्रैव गवि शक्तिग्रहसम्भवात् / अस्तु वा एकत्रैव गवि -शक्तिग्रहः न चान्यगोबोधानुपपत्तिरन्यशक्तिग्रहादन्यबोधनेऽतिप्रसङ्ग इति वाच्यम् / -गोत्वविशिष्टशक्तिग्रहो गोत्वविशिष्टप्रत्यायक इत्येवमनतिप्रसङ्गादिति सम्प्रदायविदः /