________________ उच्यते, सर्गादौ भगवानीश्वरः शरीरद्वयं परिगृह्य तथा व्यवहरति ततस्तद् व्यवहाराद् बाल: पूर्ववत् सङ्केतं गृह्णातीति किमनुपपन्नम् / ईश्वरे एव किं मानमिति चेत्, सर्गादौ व्यवहारान्यथाऽनुपपत्तिरेव / ननु पूर्वसर्गसिद्धसर्वज्ञत्वान्मन्वादय एव व्यवहारप्रवृत्तिहेतवः सन्त्विति चेत्-न / तेषां सर्वज्ञत्वे मानाभावात् / व्यवहारान्यथाऽनुपपत्तिरेव मानमिति चेत्-न, पूर्वसर्गव्यवहारस्यैवमप्यनुपपत्तेः / तत्राप्यन्य एव कल्प्यतामिति चेतु-न, प्रतिसगं भूयस्यां तथा कल्पनायां गौरवात् / अस्त्वेक एव सर्वत्र मूलमिति चेतु स एवास्माकमीश्वर इति दिक् / स्यादेतद्, यदि शक्तिग्रहः सहकारी तदा घटशब्दात्पटप्रत्ययः किन्न स्यात्, अस्ति च तस्य शक्तिग्रहो घटे / अथ यः शब्दो यत्र गृहीतशक्तिकः स तदर्थं प्रत्याययतीति चेतहि काश्यां गौरस्तीति वाक्याद्देशान्तरीयस्य गो: प्रत्ययो न स्याद् न हि तस्य काश्यां स्थितायां गवि शक्तिग्रहोऽस्ति तस्या एव प्रतीतेः / / अत्र मीमांसका गवादिपदानां गोत्व एव शक्तिः कथं तहि व्यक्तिलाभ इति चेत् तदाक्षेपादित्याहुः / ननु कोऽयमाक्षेप: तस्यार्थापत्तिरेवाऽऽक्षेप: गोत्वं हि स्वाश्रयं विनाऽनुपपन्नं तमाक्षिपतीति भट्टाः / तन्न, अनुपपत्तिज्ञानमन्तरेणापि गौरस्तीति वाक्याद् गोत्वविशिष्टव्यक्तिप्रतीते: / तस्मात्समानवित्तिवेद्यत्वमाक्षेप इति गुरवः / यावती हि जातिधीर्व्यक्ति विषयीकरोतीति व्यक्तेर्लाभः / इदमेव कथ मिति चेद् जातिभानसामग्र्या एव तद्बोधकत्वमिति गृहाण / यद्वा जातिशक्तिरेव व्यक्ति बोधयति / न चान्य(शब्द)शक्त्याऽन्यबोधनेऽतिप्रसङ्गः गोत्वशक्तं हि पदं गोत्वविशिष्टं बोधयतीत्यनतिप्रसङ्गात् / अन्यथाऽनुपपत्त्या तथैव कल्पनादिति / तदपरे न क्षमन्ते / तथा सति गोत्वमस्तीत्यतोऽपि गोत्वविशिष्टप्रत्ययापत्तेः। तस्माद् गोत्वविशिष्ट एव शक्तिः / न चोक्तदोष: गोत्वसामान्यलक्षणया सकलस्य गोरुपस्थितौ सर्वत्रैव गवि शक्तिग्रहसम्भवात् / अस्तु वा एकत्रव गवि क्ति ग्रहः / न चान्यगोबोधानापत्तिः अन्यशक्तिग्रहादन्यव्यक्तिबोधनेऽतिप्रसङ्ग इति वाच्यम् / गोत्वविशिष्टशक्ति ग्रहो गोत्वविशिष्टप्रत्यायक इत्येवमनतिप्रसङ्गादिति सम्प्रदायविदः /