________________ ननु यदि स्वातन्त्र्येणैव शब्दो मानं तदा घटमानयेत्यत: पामराणामप्यर्थप्रत्ययः स्यादिति चेद्, न / शक्तिग्रहस्यापि सहकारित्वात् पामराणां च घटादिशब्दशक्तेरग्रहात् / अथ केयं शक्ति: ? अभिधानामपदार्थान्तरं सङ्केतग्राह्यमिति मीमांसका: / नैयायिकास्त्वावश्यकत्वात् सङ्केत एवाभिधा न पदार्थान्तरं मानाभावात् / स च सङ्केतोऽस्माच्छब्दादयमों बोद्धव्य इत्याकारिकेच्छा / हन्त ! एवं पामरादि-सङ्केतिता अपि शब्दा अभिधायिका: स्युरिति चेद्, न / नहि सङ्केतमात्रमभिधा किन्त्वीश्वरसङ्केतः, न चापभाषिते सोऽस्ति मानाभावात् / कथं तहि ततोऽन्वयबोध इति चेद्, शक्तिभ्रमादिति गृहाण / कथं तहि पामरादीनामीश्वरमविदुषां मीमांसकादीनां चार्थप्रत्ययः शब्दादिति चेदुच्यते न तावदीश्वर-सङ्केतत्वेन तद्ग्रहः कारणं किन्तु सङकेतत्वेन / अस्ति च तेषामपि तथा ज्ञानम् / अाधुनिक-सङ्केतितानां चैत्रादिशब्दानां का गतिरिति चेद् 'द्वादशेऽहनि पिता नाम कुर्या'दिति सामान्यतस्तस्यापीश्वरसङ्केतितत्वादिति गृहाण / - स्यादेतत् / सोऽयं सङ्केत: कथं ग्राह्यः / उपमानादिति चेद्, न / तस्य वाक्यार्थज्ञानमूलकत्वात् तस्य च शक्तिग्रहमूलकत्वादुच्यते / प्रथमत: शक्तिग्रहो . व्यवहारात्, तथा हि घटमानयेति केनचिदुका: कश्चन तदर्थं प्रतीत्य घटमानयति तच्चोपलभ मानो बालस्तया क्रियया तस्य प्रयत्नमनुमिनोति तेन च घटानयन-गोचरप्रयत्नेन तस्य ज्ञानमनुमिनोति स्वप्रयत्ने तेन तथा निश्चयात् / ततस्तद्धेतुत्वाकाङ्क्षायामुपस्थितत्वाच्छब्दमेव कल्पयति तदनन्तरं घटधीजनकमिति कल्पयति क्लुप्ते च तस्मिन्नतिप्रसङ्गभङ्गाय तज्जननानुकूलं सङ्केतरूपं सम्बन्धं कल्पयतीति किमनुपपन्नं तदनन्तरं क्वचिद् व्यवहारात् क्वचिदुपमानातु क्वचिच्छब्दात् क्वचिद् व्याकरण-कोषादिति / सक्षेपः / स्यादेतत, द्वयोर्व्यवहारं पश्यता सङ्केतो ग्राह्यस्तयोरेव कथं सङकेतग्रहः अन्ययोर्व्यवहारादिति चेद् न, सर्गादौ तदसम्भवात् सर्गादिरेवासिद्ध इति चेद् न, कार्यद्रव्यानधिकरण-कार्याधिकरणकालस्य खण्डप्रलयतया प्रलयस्यागम-सिद्धत्वादुच्यते /