________________ ननु यदि स्वातन्त्र्येणैव शब्दो मानं तदा घटमानयेत्यतः शब्दात्पामराणामप्यर्थप्रत्यय: स्यादिति चेत्, न; शक्तिग्रहस्यापि सहकारित्वात्, पामराणाञ्च घटादिशब्दे क्ते रग्रहात् / अथ केयं शक्तिः / अभिधा नाम पदार्थान्तरं सङ्केतग्राह्यमिति मोमांसका: / ___ नैयायिकास्तु आवश्यकत्वात् सङ्केत एवाऽभिधा, न तु पदार्थान्तरं मानाभावात् / स च सङ्केतोऽस्मात्पदादयमर्थो बोद्धव्य इत्याकारिकेच्छा / हन्तैवं पामारादिसङ्केतिता अपि शब्दा अभिधायकाः स्युरिति चेत् -न, नहि सङ्केतमात्रमभिधा किन्त्वीश्वरसङ्केत: / न चापभाषिते सोऽस्ति मानाभावात् / कथं तहि ततोऽन्वयबोध इति चेत्, शक्तिभ्रमादिति गृहाण / कथं तर्हि पामरादीनामीश्वरमविदुषां मीमांसकानां चार्थप्रत्ययः शब्दादिति चेत्- न, उच्यते / न, तावदोश्वरसङ्केतत्वेन तद्ग्रहः कारणं किन्तु सङ्केतत्वेन / अस्ति च तेषामपि तथात्वेन ज्ञानम् / आधुनिकसङ्केतितानां चैत्रादिशब्दानां का गतिरिति चेत्, 'द्वादशेऽहनि पिता नाम कुर्यादि'ति सामान्यतस्तस्यापीश्वरसङ्कतितत्वमिति गृहाण / स्यादेतत् / सोऽयं सङ्केतः कथं ग्राह्यः ? उपमानादिति चेत् न, तस्य वाक्यार्थज्ञानमूलकत्वात् / तस्य च शक्तिग्रहमूलकत्वात् / उच्यते / प्रथमं शक्तिग्रहो व्यवहारात् / तथा हि घटमानयेति केनचिदुक्तः कश्चन तदर्थं प्रतीत्य घटमानयति / तच्चोपल भमानो बालस्तया क्रियया तस्य प्रयत्नमनुमिनोति / तेन च घटानयनगोचरप्रयत्नेन तस्य ज्ञानमनुमिनोति / स्वप्रयत्नेन तथा निश्चयात् / ततस्तद्धत्वाकांक्षायामुपस्थितत्वाच्छब्दमेव कल्पयति, तदनन्तरं च घटादिपदानां प्रत्येकमावापोद्वापाभ्यां घटपदं घटबोधजनकमिति कल्प्यते / - क्लुप्ते च तस्मिन्नतिप्रसङ्गभङ्गाय तज्जननानुकूलं सङ्कतरूपं सम्बन्धं कल्पयति, इति किमनुपपन्नम् ? तदनन्तरं च क्वचिद्वयवहारात् क्वचिदुपमानात् क्वचिच्छब्दात् क्वचिद् व्याकरणकोशादेरिति संक्षेपः / . स्यादेतत् / द्वयोर्व्यवहारं पश्यता सङ्केतो ग्राह्यः ! कथं तयोरेव सङ्केतग्रहः / अन्ययोर्व्यवहारादिति चेत्-न, अनवस्थापत्तेः / अनादित्वादियमिष्टैवेति चेत्-न / सर्गादौ तदसम्भवात् / प्रलये मानाभावात्सर्गादिरेवाऽसिद्ध इति चेत्-न / कार्यद्रव्यानधिकरणकार्याधिकरणकालस्य खण्डप्रलयतया प्रसिद्धस्याऽऽगमसिद्धत्वात् ततस्तदुव्यवहार इति /