________________ भट्टाचार्यचूडामणि-श्रीजानकीनाथशर्म-विरचितायाः न्यायसिद्धान्तमञ्जर्याः शब्दखण्ड: __ [ साम्प्रतिकः प्रचलितः पाठः ] अथ शब्दो निरूप्यते, तत्र शाब्दप्रमितिकरणं शब्दः शाब्दत्वं च शब्दात् प्रत्येमीत्यनुभवसिद्धो जातिविशेषः / जन्य-शब्दत्वधीजन्यत्व-व्यभिचार्यनुभवत्वाव्यापकजातिशून्यत्वे सति पदविषयकत्वाव्यभिचारिजातिशून्यधीत्वं वा। सत्यन्तं प्रत्यक्षानुमितिस्मृतीनां वारणाय / तत्र तादृशीनां प्रत्यक्षत्वादिजातीनां सत्त्वात् / जातिशून्यत्वमनुभवत्वाव्यापकजातिशून्यत्वं चासम्भवि अनुभवत्वादीनां तदव्यापकशाब्दत्वस्य च सत्त्वात् / जन्यपदधीजन्यत्व-व्यभिचारिजातिशून्यत्वमपि तथा तादृशानुभवत्वादीनां सत्त्वात् पदधीजन्यत्व-व्यभिचार्यनुभवत्वाव्यापक-जाति-शून्यत्वं चानुमितावपि अनुमितित्वस्य भगवत्पक्षधीजन्यत्वाव्यभिचारित्वादतः समुदितमुपात्तम् / उपमितावतिव्याप्तिवारणाय शून्यान्तम् / जात्यादावतिव्याप्तिवारणाय धीपदम् / सोऽयं शब्द: सकलजनानुभवसिद्धो दुरपह्नवस्तज्जनकत्वमपि तथा / आगोपालाङ्गनमा च पण्डितं चैव वाक्यादमुमर्थं प्रत्येमीति प्रतीतेः / केवल मनुमानविधयाऽन्यथा वेति विप्रतिपद्यन्ते तत्रानुमानविधयेति वैशेषिका: / ... नैयायिकास्तु पृथगेव शब्दो मानं न त्वनुमानशब्दस्यार्थाव्याप्यत्वातु न हि यत्र शब्दस्तत्र घटानयनादिरूढोऽर्थः शब्दस्याकाशवृत्तित्वाद् घटादेश्च तदवृत्तित्वात् / दृश्यते च व्याप्तिज्ञान-विधुराणामपि शब्दादन्वयानुभवः / न चायमितिरूपस्तस्या व्याप्तिधीजन्यत्वातु प्रतीयन्ति च लौकिकाः, अननुमितमसाक्षात्कृतं च श्रुतमिदं नैयायिकेभ्य इत्यलमति विस्तरेण /