________________ भट्टाचार्य-चूडामरिण-श्रीजानकीनाथशर्म-विरचितायाः न्यायसिद्धान्तमञ्जयः शब्दखण्डः [ टीकाकार-स्वीकृतः पाठः ] अथ शब्दो निरूप्यते तत्र शाब्दं प्रमितिकरणं शब्दः / शाब्दत्वञ्च शब्दात्प्रत्येमीत्यनुभवसिद्धो जातिविशेषः। जन्यपदधीजन्यत्वव्यभिचारि अनुभवत्वाव्यापकजातिशून्यत्वे सति पदविषयकत्वाऽव्यभिचारिजातिशून्यधीत्वं वा, सत्यन्तं प्रत्यक्षानुमितिस्मृतीनां वारणाय, तत्र तादृशीनां प्रत्यक्षत्वादिजातीनां सत्त्वात्। जातीनां सत्त्वात् / जातिशून्यत्वम् अनुभवत्वाव्यापकजातिशून्यत्वं चाऽसम्भवि / अनुभवत्वादीनां तदव्यापकशाब्द(त्व)स्य च सत्त्वात् / जन्यपदधीजन्यत्वव्यभिचारिजातिशून्यत्वमपि तथा / तादृगनुभवत्वादीनां सत्त्वात् / पदधीजन्यत्वव्यभिचारि अनुभवत्वापरजातिशून्यत्वं चानुमिताबपि अनुमितित्वस्य भगवत्पदधीजन्यत्वाव्यभिचारित्वात्, अतः समुदितमुपात्तम् / उपमितावतिव्याप्तिवारणाय शून्यान्तम् / जात्यादावतिव्याप्तिवारणाय धीपदम् / / सोऽयं शब्द: सकलजनानुभवसिद्धो दुरपह्नवः। तज्जनकत्वमपि तथा / आगोपालाङ्गनमापण्डितं चैत्रवाक्यादमुमर्थं प्रत्येमोति प्रतीते: / केवलमनुमानविधयाऽन्यथा वेति विप्रतिपद्यन्ते / तत्रानुमानविधयेति वैशेषिकादयः / नैयायिकास्तु पृथगेव शब्दो मानं न त्वनुमानम् / शब्दस्य अर्थाव्याप्यत्वात् / न हि यत्र शब्दस्तत्र घटानयनादिरूपोऽर्थः शब्दस्याऽऽकाशवृत्तित्वात्, घटादेश्च तदवृत्तित्वात् / ___दृश्यते च व्याप्तिज्ञानविधुराणामपि शब्दादन्वयानुभव: / न चायमनुमितिरूपः, तस्या व्याप्तिधीजन्यत्वात् प्रतियन्ति च लौकिका: अननुमितमसाक्षात्कृतं श्रुतमिदं नैयायिकेभ्य इत्यलं विस्तरेण /