________________ भट्टाचार्य-चूडामरिण-श्रीजानकीनाथशर्म-विरचितायाः न्यायसिद्धान्तमञ्जर्याः शब्दखण्डः मूलपाठद्वयम् अस्य शब्दखण्डस्य पूज्य-महोपाध्याय-श्रीमद्-यशोविजयजिन्महाराजै रचितायाष्टीकाया यावानंशो मुद्रितस्तावानंशोऽत्र मूलस्य स्वतन्त्ररूपेण मुद्रयते / किञ्चोपाध्यायमहाराजानां स्थितिकाले मूलस्य यादृशं रूपं प्रचलितमासीत् तथैव तैष्टीकाकरणेऽपि स्वीकृतं भवेदिति तु सुनिश्चितमेव / तथापि क्वचित् क्वचित् साम्प्रतं केचन पाठभेदा अपि लन्यन्ते / अतो विदुषां परिचयाय तावुभावपि पाठौ साम्प्रतमत्र प्रारम्भे क्रमश: "प्रथमे पृष्ठे श्रीमदुपाध्यायः स्वीकृतस्तथाऽस्माभिः सम्प्राप्त: पाण्डुलिपिमूलकः पाठः द्वितीये च पृष्ठे समक्षमेव श्रीयादवाचार्यविरचितया-न्यायमञ्जरी सारटीकया सह काशीस्थराजकीय, संस्कृत पाठशालाया न्याय-प्रधानाध्यापक-तर्कतीर्थ-तर्करत्न-पण्डितश्रीजीवनाथ मिश्रसंशोधितः सं० 1972 तमे वर्षे काश्यां प्रकाशितः पाठश्च" मुद्रयते / मन्य एतेन विदुषां ज्ञानरसातिरेकः सम्भविष्यतीति / -सम्पादकः