________________ न्यायसिद्धान्तमंजरी शब्दखण्ड रीका ब्राह्मण्यं यस्मिन्स क्षत्रियादिरित्यर्थो न युक्तः आरोपितवामण्यस्य क्षत्रियादेर्नअवाच्यत्वादन्यथा सादृश्यादेरपि वाच्यत्वापत्तेः, किन्तु निवृत्तं पदार्थो यस्येति नपुंसके भावे त इत्यर्थ इति तदीयैरेवोक्तत्वात् / सच नअर्थोऽभावः प्रतियोगिनि विशेषणतयाऽन्वेति अन्यथाऽत्वं भवसि अनहं भवामीत्यादौ पुरुषव्यवस्था न स्यात् त्वदभाव मदभाव इतिवदभावांशे युष्मदस्मदोरन्वयेनेति युष्मत्सामानाधिकरण्याभावात् , अस्मन्मते च मेदमतियोगित्ववदमिन्नाश्रय इत्यर्थात् युष्मत्सामानाधिकरण्यं सेव्यते नैकयेत्यादावेकवचननियमोआमण इत्यादावुत्तरपदार्थप्राधान्यात्तत्पुरुषत्वं च युक्तमेव / यद्वा घटो नास्तीत्यादौ घटाभिन्नाश्रयोऽस्तित्वाऽभाव इति बोधस्यानुभविकत्वात्तस्य विशेष्यतैव, अत्वं भवसीत्यादौ च युष्मदस्त्वद्भिन्ने लक्षणा; न द्योतकः, युष्मदेऽमिन्ने न तिङ् सामानाधिकरण्यात् पुरुषव्यवस्था। सेव्यते नैकयेत्यादौ योषयेति विशेष्यानुोंधादेकवचनमत एव- पतन्त्यनेके जलरिवोर्मय' इत्यादिकं सूपपादमिति वैयाकरणा एवाहुः / वर्ष तु ब्रमः-अभावतद्वतो अर्थयोविशेष्यत्वेनैवान्वयोऽब्रामणोऽविद्येत्यादौ च भाक्त आरोपितत्वविरुद्धत्वादेविशेषणत्वेनापि नियामकः समभिव्याहारविशेषादिः......॥ [अपूर्णोऽयं अन्यः] इयं कृतिः संशोधिता संपादिताश्च पूज्याचार्यश्रीविजयधर्मसूरीश्वरशिष्यमुनि यशोविजयेन / ' वि. सं. 2016 वर्षे। . समाप्तम्। 0 00..