________________ न्यायसिद्धान्तमंजरी शब्दखण्ड टीका एतेन तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता / अप्राशस्त्यं विरोधश्च नअर्थाः षट् प्रकीर्तिताः // 1 // इत्यनुसारेण सादृश्यादावपि शक्तिरित्यपास्तं गौरवान्मुख्यप्रयोगविरहाच्च तत्र शक्त्यसिद्धः; क्वाचित्कबोधस्य तु लक्षणयाऽप्युपत्तेः / ननु प्रामाणिकं गौरवं न दोषायेति संसर्गाभावत्वमेव नञः शक्यतावच्छेदकमत आह-विनिगमनाविरहेणचेति-तथा च घटो नेत्यादिवाक्यजबोधोत्तरं घटभेदत्वादिना संशयवारणाय भेदत्वात्यन्ताभावत्वयोरखण्डोपाध्योरेवः तत्त्वमस्त्विति नव्यमतं नियूंढम् ; इत्थमप्यभावातिरिक्ते न शक्तिस्तदाहअभावमात्र एवेति-इत्यं च यदुक्तं नृसिंहेन नियामकाभावादन्योन्याभावत्वमपिः, शक्यतावच्छेदकमिति-नानातिव नओऽत एव नअर्थाः षट् प्रकीर्तिता इति प्राश्च इति-तत्प्रामादिकं वेदितव्यम् / अभावमात्र एवेति-मूलास्पर्शात्समभिव्याहारोपगृहीत नियतप्रयोगेण तत्रैव शक्तिरित्यत्र लक्षणेत्यस्मद्याख्यानस्यैव मनोविनोदकत्वात् , अभावत्वमेव नञः शक्यतावच्छेदकम् अतिरिक्तभेदत्वादेरसिद्धत्वे न संशयाभावः; तादात्म्यावच्छिन्नप्रतियोगिताकाभावत्वादिना संशयस्य तु तादृशप्रतियोगिताकत्वसंसर्गेण घटविशिष्टाभावत्वादिना निश्चयोऽन्ततो व्यावर्तकधर्मदर्शनविधया विरोधी / केवलभदवानिति बुद्धरत्यन्ताभावसंशयाविरोधित्वं तु तादात्म्यतदितरसंसर्गावच्छिन्नप्रतियोगिताकाभावात्यभेदात्यन्ताभावत्वयोर्भेदात् , अत एव न भेदात्यन्ताभावादिपर्यायतेति भट्टाचार्याः / एतेनारोपितत्वमेव नद्योत्यमारोपमात्रमर्थो विष"रत्वं च संसर्ग. इति नव्याः / अभावस्य तदर्थे तस्य विशेष्यत्वेनैव भावस्य सर्वसिद्धत्वादसर्वस्मै इत्यादी सर्वनामकार्यानापत्तिः गौणत्वेन तन्निषेधात् , इतरपदार्थविशेषणत्वेनोपस्थितार्थकत्वं हि गौणत्वं तथा सत्यायातमभावे प्रतियोगिनो विशेषणत्वात् , आरोपितं च विशेषणमेवेति न दोषः / किश्च भावार्थकत्वेऽविघ्नमित्यादौ परत्वादव्ययीभावं बाधित्वा तत्पुरुषत्वमेव स्यात् , इत्थं च वायौ रूपं नास्तीत्यत्र रूपाश्रिता आरोपिता सत्ता वायाविति बोधः / पीतः शंखो नास्तीत्यत्र चारोपिता / पीतशंखेत्यादेः विशिष्टसत्ताऽप्रसिद्धावपि तदूघटकयावत्पदार्थप्रसिद्ध्याऽहार्यारोपेणाहार्यशाब्दसंभवात् / अत एव शशविषाणजन्यं कार्मुकं नास्तीत्यादौ शशविषाणजन्यकार्मुकनिरूपिताऽऽरोपिता सत्येत्यादिर्बोध इति निपुणमन्यस्य वैयाकरणस्य मतमपास्तम् , आरोपितत्वारोपत्वादेर्गुरुत्वेन शक्यतानवच्छेदकत्वात् नोऽभावबोधस्यानुभविकस्य सर्वसिद्धस्यापलापे बहुविप्लवापातान्नियमतस्तस्य ज्ञापकाभावेनाग्रेऽपि तद्बोधापत्तेः / 'अस' इत्यादौ सर्वनामसंज्ञाया एतत्तदोरिति ज्ञापकादेव सिद्धेरविघ्नमित्यादावव्ययीभावस्य तु तत्पुरुपाव्ययीभावयोर्वेकल्पिकत्वादेवोपपत्तेः, "रक्षोहागमलध्वसन्देहाः प्रयोजनमिति भाष्यस्वारस्येनैव विकल्पाभ्युपगमादभावस्यैव नअर्थताया युक्तत्वात् / अत एव निवृत्तपदार्थ इति भाष्यप्रतीके निवृत्तः पदार्थो मुख्यं