________________ 46 न्यायसिद्धान्तमंजरी शब्दखण्ड टीका द्विवचनबहुवचने द्वन्द्वसमासोवति / साहित्यश्च तुल्यवदेकक्रियान्वयित्वम् / अत एव यत्कर्तव्यं तदनया सहेत्यत्र पल्याः सहभावमात्रं न तु साहित्यम् / यागादौ पल्या अनुमतिद्वाराऽन्वयेन तुल्यवदन्वयादित्याहुः / टीका-मीमांसकास्त्विति-तत्रापि-इतरेतर द्वन्द्वेऽपि / स्वोक्ते प्रामाणिकसंमतिमाह-तदाहुरिति-शाब्दिका इति शेषः / साहित्य इति-बोध्ये इति शेषः / द्विवचनबहुवचने साहित्यबोधके भवतः द्वन्द्व समासो वा भवतीति योजनीयं, किं तत्साहित्यमित्याह-साहित्यं चेति, अत एवमुख्यस्वातन्त्र्यानधिकारादेव / सहभावमात्रं-प्रतीयत इति शेषः / नतु साहित्य-निरुक्तसाहित्यम् / अनुमतिद्वारान्वयेनास्वातन्त्र्यादित्यर्था : तुल्यवदिति-तुल्यवदन्वयाभावान्न साहित्यं तत्र प्रतीयत इत्यर्थः / आहुरित्यनेनास्वरसः सूचितः / स चायं धवखदिरपलाशान् छिन्धीत्यादौ धवत्वादिनैवान्वयः सर्वानुभवसिद्धो ननु साहित्याश्रयत्वेन / न च धववन्तमानयेत्यादौ धवादेः कर्मत्वादिप्रत्ययापत्तिवारणाय धवप्रकारकशाब्दबुद्धि प्रति तदुपस्थापकपदाव्यवहितोत्तरवर्तिविभक्तिजन्योपस्थितेहेतुत्वादत्र साहित्याश्रयबोधाय लक्षणाधौव्यं धवत्वादिनैव कर्मत्वबोधात् तां पश्याचार्यकल्पं पूजयेत्यादौ टाप्कल्पवादिनेव द्वन्द्वघटकपदेन यद्व्यवधानं तदतिरिक्तव्यवधानाभावगर्भस्यैवाव्यवहितत्वस्य ग्रहाद् 'द्वन्द्वान्त' इत्यादिन्यायाद्भिन्नव्युत्पत्तेरित्यादिः / कर्मधारयमधिकृत्याह___ मूलम्-नीलोत्पलमित्यादौ नीलाभेदस्यान्वयविधयैवात्रभासनोपपत्तेः। कर्मधारये न शक्तिर्नवा लक्षणा। अत एव तत्पुरुषात्कर्मधारयोर्बलीयान्। तत्र हि पूर्वपदे सम्बन्धिलक्षणेत्युक्तम् / नञ्तत्पुरुषेऽप्यघटः पट इत्यत्र घटपदं घट सम्बन्धि परम् / नअपदं चान्योन्याभावे शक्तुमेव / संसर्गाभाववाचकं नजपदं नान्योन्याभावशक्तमिति चेत्, न, लाधवेन विनिगमनाविरहेणचाभावमात्र एव तच्छक्त्यवधारणात् / / टीका-नीलेत्यादि, इत्यादौ कर्मधारय इति शेषः / अन्वयविधया-संसर्गविधया / नेति-अभेदे न शक्तिर्न वा लक्षणेत्यर्थः / उपष्टम्भकमाह-अत एवेति-एतल्लाघवमूलैव निषादस्थपत्यधिकरणप्रवृत्तिः। तत्र-षष्ठीतत्पुरुषे / पूर्वपदे-नञ्तत्पुरुषे वस्तुस्थितिमाह-ननित्यादि, नञ् पदं चान्यानाभावेशक्तमिति-वस्तुस्थितिः प्रकृते चान्योन्याभाववल्लझकमित्यनुपदमेव स्फुटीकरिष्यते तथा च प्रकृते घटसम्बन्ध्यन्योन्यभाववान् तदभिन्नः पट इति बोधः नामार्थयोर्भेदेनान्वये नियमे निपातातिरिक्तत्वानिवेशे तु न क्वापि लक्षणा तथा च घटभेदवान् पट इत्येव बोध इति ध्येयम् / भ्रान्तः शङ्कतेसंसर्गाभाववाचकं नजिति, लाघवेति-संसर्गाभावत्वापेक्षयाऽभावत्वस्य लघुत्वात्तदेव नञः शक्यतावच्छेदकं; तादाम्यतदितरसंसर्गावच्छिन्नप्रतियोगिकत्यांशस्तु वक्ष्यमाणसमभिव्याहारविशेषरूपाकाङ्क्षा लभ्य एवेति न तस्य शक्यतावच्छेदककोटी प्रवेश इति भावः /