________________ न्यायसिद्धान्तमंजरी शब्दखण्ड टीका एवान्वयः पदव्युत्पत्तिवैचित्र्यादित्यन्ये / पाणिपादं वादयेत्यत्र पाणिपादमात्रप्रतीतेन समाहारे लक्षणा शक्तिर्वा / नचैवं द्विवचनापत्तिः असाधुत्वात् / इतरेतरसमाहारसंज्ञा तु नदीवृद्धयादिवत् पारिभाषिक्येवेति तु तत्वम् / इतरेतरद्वन्द्वे तु धवखादिराविति स्वरूपद्वयप्रतीतेन लक्षणा शक्तिर्वा / टीका-परम्परयेति-स्वाश्रयनिरूपितत्वसम्बन्धेनेत्यर्थः / एवं सति साक्षात्सम्बन्धेनानुभूयमानबोधापलापापत्तिरत आह-समाहारोत्तरेति-समाहारोत्तरविभक्त्यर्थकर्मत्वादेः-समाहारवाचकपादादिपदोत्तरविभक्त्यर्थीभूतकर्मत्वादेः। समाहियमाण एव-समाहाराश्रये पाणिपाद एवेत्यर्थः / कथमेवमन्वयोऽन्वयमाह-समाहारः सामानाधिकरण्यमिति समाहाराधिकरणवृत्तित्वस्यैव कर्मत्वे बोध इत्येतादृशनियमहेतुव्युत्पत्तिविशेषकल्पनादित्यर्थः / तथा च समाहारार्थकपदोत्तरद्वितीयादिजन्योपस्थितेः समाहारावच्छिन्नप्रकारताककर्मत्वादिविशेष्यकशाब्दबोधहेतुत्वं कल्पनीयमित्यर्थः / समाहारावच्छिन्नप्रकारताकश्च बोधो युगपवृत्तिद्वयाविरोधे संगच्छते; शक्त्योपस्थितयोः पाणिपादयोर्लक्ष्यस्य समाहारस्य प्रकारतायाः प्रथममन्वयबोधसम्भवात् / पाणिपादमेव वा पाणिसमाहतार्थकं, पादपदं तु मुख्यार्थमेवेति युक्तं पश्यामः। अन्ये-कल्पकाः / पाणिपादमात्रप्रतीरित्यत्र मात्रपदेन समाहारव्युदासः / न समाहारे लक्षणेत्यनेन एकदेशलक्षणावादिनो न्यायानुयायिनः समुदायलक्षणावादिनश्च जैमिनीयस्य निरासः / न वा शक्तिरिति-अनेन समुदायशक्तिवादिनो वैयाकरणस्य / एवं-समाहारानुपस्थितौ। द्विवचनापत्तिरिति-पाणिपादयोरुभयत्वादित्यर्थः / अस्मन्मते तु समाहारस्यैकत्वादेकवचनं नाघटमानमिति भावः / असाधुत्वादिति-व्याकरणनिषिद्धत्यादित्यर्थः / . नन्वेवं 'पाणिपाद' 'हस्त्यश्वरथम् / इत्यादौ समाहारद्वन्द्वत्वं 'धवखदिरपलाशा' इत्यादौ चेतरेतरद्वन्द्वत्वमिति व्यवस्था कथं स्यादत आह-इतरेतरेति, नदीति-'यूस्त्र्याख्यौ नदी' आडुत्तरस्य वृद्धिरित्याद्यनुशासनात् यथा स्त्रीशब्दादेर्नदीवृद्धयादिसंज्ञकत्वं पारिभाषिकं विज्ञायते तथेतरेतरसमाहारद्वन्द्वयोः पारिभाषिक्येवेतरेतरत्वसमाहारत्वसंज्ञेत्यर्थः / यत्र च 'हस्त्यश्वं प्रमेयं 'पाणिपादमभिधेयम्' इत्यादौ समाहारोऽनुभूयते तत्र लक्षणैवाभ्युपेयते / अत एव हस्त्यश्वद्रव्यमित्यादौ विनाऽपि द्रव्यपदलक्षणामन्वय उपपद्यत इति ध्येयम् / आनुभविका:-अनुभवानुसारिणो नव्याः / प्रामाणिकत्वसूचनायार्थान्तरसंक्रमितवाच्यमेतत्पदं निर्दिष्टम् / इतरेतरद्वन्द्वे सम्प्रदायमतमाह-घवखदिराविति-धवखदिरावित्यादीत्यर्थः / द्वयं-इत्युपलक्षणं समस्यमानपदार्थमात्रस्यैव प्रतीतिरत्यर्थः / न शक्तिन वा लक्षणेत्यस्येतरेतरद्वन्द्वे इत्यनेन योगः। मूलम्-मीमांसकास्तु धवखदिरसाहित्याश्रये लक्षणा। तदाहुः- साहित्ये हि * इदं प्रतीकं मुद्रितामुद्रितप्रतौ क्वचिदपि नोपलभ्यते /