________________ 44 न्यायसिद्धान्तमंजरी शब्दखण्ड टीका करणत्यकर्मत्वादिना काष्ठतण्डुलादीनां धात्वर्थेऽन्वयापत्तेश्च / कर्मत्वादिविशेष्यकबोध एव त्वया द्वितीयादिजन्योपस्थितेहेतुत्वोक्तेरत्र कर्मत्वादेरविशेष्यकतया द्वितीयाद्यभावेऽप्यक्षतेः / ___ न चाभेदातिरिक्तसम्बन्धेन नामार्थप्रकारकशाब्दबोधं प्रति तदुत्तरसाधुविभक्तिजन्योपस्थितेहेतुत्वान्नोत्तरदोषः दण्डिनं चक्रिणं पूजयामी ' त्यादौ व्यभिचारादिनादेरविभक्तित्वात् , तस्मात्तत्तन्निरूपितप्रकृतित्वस्याननुगमेऽपि 'स्वपितृभ्यः पिता दद्यात्' इत्यादौ स्वत्वपितृत्वादेखि तदादिन्यायेनोपलक्षणेनानुगमात्सामान्यतः कार्यकारणभावस्य सुग्रहत्वादुक्तापादनमित्याशयात् / विभक्त्यन्तपदद्वयस्य लक्षकत्वे दोषमाह / मूलम्-अथ विभक्त्यन्तस्यैव गभीरनदीतीराधारत्वलक्षकत्वमिति चेत्, न, अशक्तत्वात् / तस्मात्पदद्वय एव विनिगमकाभावाद्विशिष्टनदीतीरे लक्षणा / नचैकपदवैयर्थ्यम् परस्परतात्पर्यग्राहकत्वादिति सम्प्रदायः। विस्तरस्त्वस्माकं मणिमरीचिनिबन्धनतात्पर्य्यदीपिकयोरनुसन्धेयः / उपकुम्भमर्धपिप्पलीत्यादावप्युत्तरपदलक्षणयैवपपत्तौ न शक्तिरुपेयते अन्यलभ्यत्वात् / समाहारद्वन्द्वे पाणिपादमित्यादौ पाणिपदं पाणिप्रतियोगिक पाणिपदं तु पादसमाहारं लक्षयतीति न पाणिपादसमाहारे शक्तिः। समाहारश्च तुल्यवदेकक्रियान्वयित्वरूपं साहित्य सेनावनादिवदपेक्षाबुद्धिविशेषविषयत्वं वा। टीका-अथेति-अशक्तत्वादिति-तथा च शक्यसम्बन्धरूपलक्षणानुपपत्तेरित्यर्थः / वाक्यार्थविधया बोध्यसम्बन्धस्य लक्षणात्वे घोषान्तर्भावेनापि लक्षणाप्रसङ्गः / इष्टमिदं वाक्यार्थो लक्ष्य इति भाट्टानामिति चेत्तर्हि समासवाक्ये नेति किमिदमर्धजरतीयम् / एतद्धि सामान्यविशेषभावशालिनानार्थिकरूपार्थबोधजनकनानैकशक्त्यभ्युपगन्तृणाम् - अनेकमेकात्मकमेव वाच्यं - वृक्षा इति प्रत्ययवत्प्रकृत्येत्यादिवादिनामार्हतानामेव शोभते नैकान्तवादिनामिति विवेचितमष्टसहस्त्रीविवरणेऽस्माभिः / अव्ययीभावे वस्तुस्थितिमाह-उपकुम्भमित्यादि, उपपत्तौ-कुम्भसमीपमित्यर्थबोधोपपत्तौ / द्वन्द्वे तामाह-समाहारद्वन्द्व इत्यादि-पाणिप्रतियोगिक-मिति / तेन पादपदार्थे पादसमाहारेऽ भेदान्वययोग्यत्वमुपदर्शितम् / इति नेति-पदद्वयलक्षणयैवोपपत्तेरित्यर्थः / / न च पदद्वयलक्षणास्वीकारे तदुभयार्थवैशिष्टयबोधायाकाङ्क्षादिज्ञानादिहेतुत्वकरुपने गौरवं, विशिष्टशक्तिस्वीकार तु लाघवमिति; उक्तगौरवस्य * फलमुखत्वेनाबाधकत्वादन्यलभ्यत्वेन च वैशिष्टयशक्त्यसिद्धेः / अनुगततुल्यवत्त्वानिरुक्तेराह-सेनेत्यादि। ___ मूलम्-नन्वेवं पाणिपादंवादयेत्यत्रानन्वयः समाहारे वादनकर्मत्वाभावादिति चेत् , न, परम्परया तत्र कर्मत्वान्वयादित्येके / समाहारोत्तरविभक्त्यर्थकर्मत्वादेः समाहियमाण