________________ न्यायसिद्धान्तमंजरी शब्दखण्ड टीका यापत्तेः / न हि तीरं गभीरम् / नापि गभीरपदं तीरलक्षकम् नद्यामित्यनन्वयापत्तेः / न हि तीरं नदी, तस्मादनन्यगतिकतया वाक्यमेव गभीरनदीतीरलक्षकमित्याहुः / अत्रोच्यते। वाक्यं न विशिष्टार्थबोधकं तद्बोधकतावच्छेदकशक्तेरभावात् / अत स्तत्रस्वबोध्यसम्बन्धो लक्षणेति रिक्तं वचः / किञ्च गभीरायां नद्यामिति विभक्त्यन्तभागस्य न नदीतीरे लक्षणा, तदाधारताप्रत्ययानापत्तेः / प्रत्ययानां प्रत्यान्वितबोधकत्वात् / नापि गभीरायां नदीभागस्य तस्याबोधकत्वात् / बोधकत्वेलक्ष्ये विभक्त्यर्थानन्वयापत्तेः प्रत्ययानां प्रकृत्यान्वितबोधकत्वात् / न हि भागः प्रकृति येन तदर्थे विभक्त्यर्थान्वयः स्यात् / गभीरायामिति सप्तम्यनापत्तेश्च / ___टोका-मीमांसकास्त्विति-बोध्यम् स्वजन्यबोधविषयः / अन्यथा-शक्यसम्बन्धस्यैव लझणात्वे / का गतिः-किमुपपादकं, नहीति-नदी पदे तीरलक्षणा नोक्तवाक्यप्रामाण्योपपादिकेत्यर्थः / अनन्वयापत्तेरिति-योग्यताभावादित्यर्थः / तदेवाह-न हि तीरं गभीरमिति-एवमग्रेऽपि व्याख्येयम् अनन्यगतिकतयेति-अवयवलक्षणयानुपपत्तेरित्यर्थाः / एतन्मतं दूषयति-अत्रोच्यते इत्यादिना / रिक्तं वचः-इति-तथा च बोध्यसम्बन्ध इत्यत्र वृत्त्या बोधकत्वविवक्षा कर्तुमशक्येति फलितं; तर्हि प्रकृतार्थबोधजनकज्ञानविषयतापर्याप्त्य धिकरणत्वमेव बोधकत्वं विवक्षणीयम् , तत्राहकिंचेति अनापनेरिति-सप्तम्या अपि लक्ष्यकोटिप्रवेशालक्ष्यकोटौ चाधारत्वाप्रवेशादित्यर्थः / तर्हि सप्तमीविनिर्मुक्त एव लक्षकभाग आद्रियताम् / तत्राह-नापीति अबोधकत्वात्-बोधकतापर्याप्त्यनधिकरणत्वात् , अर्थबोधजनकज्ञानविषयमानं च न तन्त्र प्रत्येकवर्णानामप्येवमर्थवत्त्वापत्तौ विभक्त्याद्युत्पत्यापत्तेरिति भावः / अभ्युपगम्याह-बोधकत्वे वेति, नहीति, स भागः-गभीरायां नदीति भागः, अप्रकृतित्वं च तस्य तदुत्तरं प्रत्ययाविधानात् प्रत्येकपदोत्तरमेव तद्विधानात् प्रत्येकपदद्वयस्यैव सप्तमीप्रकृतित्वादित्युत्तरस्य सप्तमीविनिर्मुक्तस्य प्रकृतित्वे दोषान्तरमाह-गभीरायामिति-केवलगभीरपदस्याप्रकृतित्वापत्तेरित्यर्थः। ननु सर्वमिदं 'प्रत्ययानामि 'त्यादि न्यायसिद्धौ स्यात्तत्रैव तु किं मानमिति चेत् , सत्यं, विशेष्यतया प्रकृत्यर्थप्रकारकबोधे प्रत्ययजन्योपस्थितेहेतुत्वस्यैव मानत्वात् / / ननु तत्तत्प्रत्ययविधानावधित्वरूपस्य प्रकृतित्वस्याननुगमान्न सामान्यतः कार्यकारणभावः किन्तु घटप्रकारककर्मत्वविशेष्यकशाब्दबुद्धि प्रति घटार्थकपदोत्तरकर्मत्ववाचकविभक्तिजन्योपस्थितिहेतुरिति विशिध्यैवेति क्वचिदप्रकृत्यर्थेनापि प्रत्ययार्थान्वयान्नायं दोष इति चेत् , न, सामान्यतो हेतुहेतुमद्भावानभ्युपगमे चक्रिणमहं पूजयामीति चक्रस्येनर्थ इवाकाङ्क्षासत्वादन्यत्राप्यन्वयापत्तेः / 'काष्ठं तण्डुल' इत्यादौ + 'अत एव' इत्यपि पाठः /