________________ न्यायसिद्धान्तमंजरी शब्दखण्ड टीका लक्ष्यत इति न वक्तुं शक्यमेवमपि प्राप्तोदक इत्याद्यषष्टयर्थबहुव्रीहौ तदसंभवात् , प्राप्तिकर्बभिन्नमुदकमिति बोधोत्तरं तत्सम्बन्धिग्रामलक्षणायामप्युदककर्तृकप्राप्तिकर्मग्राम इत्यर्थालाभात् / प्राप्तेति तप्रत्ययस्यैव कर्थस्य कर्मणि लक्षणेति चेदभेदान्वयव्युत्पत्तेरुदकाभिन्न प्राप्तिकर्मेति स्यात् , प्राप्तेर्धात्वर्थतया कर्तृतासम्बन्धेनोदके तदन्वयस्त्वसंभवी अन्यथा 'देवदत्तः पच्यत' इत्यत्रानन्वयानापत्तेः / अथोदकाभिन्नकर्तका प्राप्तिरिति बोधोत्तरं तत्कर्मग्रामो लक्ष्यत इति चेत् , न, प्राप्तेर्धात्वर्थतया तार्थ प्रति विशेष्यत्वासंभवात् / प्रकृतिप्रत्यययोः प्रत्ययार्थप्राधान्यनियमादित्यादि वैयाकरणानां कल्पनाजालमपास्तम् / चित्रगुरित्यत्र प्राप्तोदक इत्यादौ च पदद्वयलक्षणायामनुपपत्त्यभावादनेकमन्यपदार्थे इति विध्यर्थस्याप्यस्खलितत्वेन बहुव्रीह्यसम्भवस्यापि वक्तुमशक्यं चरमपदस्यैवान्यपदार्शलक्षणायामपि कथंचिदनेकेषामन्यपदार्थप्रतीत्युपयोगित्वान्न विरोध इति स्मर्त्तव्यम् / यत्त्वेवंसति घटगोस्तम्भादिपदेष्वपि 'घट ' चेष्टायां 'गम्ल' गतौ 'स्तम्भु' रोधन इत्यादि धातुभ्यः * पचायजादिमिर्युत्पादनसत्त्वे नान्तर्गतप्रत्ययो( ये?) जतिविशेषलक्षणा(ण)या धातुप्रत्यययोरुभयोरेव वा तया नियतबोधसम्भवात्तेषामपि न शक्तिरिति* रूढशब्दोच्छेद, एव स्यात् , घटादिशब्देषु योगस्योक्तत्वात्मकादिशब्दानामपि मूकायतीति योगसम्भवान्नियगस्थश्च लक्षणयैव सिद्धयेदिति घटादिशब्देष्विव प्रकृते व्यवहारादावश्यकी समुदायशक्तिसिद्धिरिति भूषणकृतोक्तं तत्तु यौगिकोच्छेदकत्वादेवोपेक्षणीयम् / व्यवहारविशेषस्तु शक्त्येव निरूढलक्षणयापि न दुरुपपादः एवम्भूतनयजन्यबोधे योग एव तन्त्रं समभिरूढसाम्प्रतनयजन्यबोधे च रूढ्यादित्रयमिति विवेकस्तु निर्मलधियामाहतानामेवानाविल इति निरूपितमस्माभि-नयामृततरङ्गिण्यामिति तत एवावधार्यम् / अन्यलभ्यत्वादिति-एतेन प्रत्येकवृत्त्यज्ञानेऽपि बोपदावश्यकी समुदायशक्तिः, घटादिपदेष्वपीदमेव तत्साधकम् , अत एव पङ्कजपदेऽपि तत्स्वीकारः प्रकारान्तरासम्भवादिति भूषणोक्तमपास्तं प्रत्येकवृत्त्यज्ञाने समुदायशक्तिभ्रमस्य पूर्व सम्भवेऽप्यन्यलभ्यत्वज्ञानोत्तरं तन्निवृत्तेः।। न च पदतदर्थघटितशक्तेभेमस्यैवासम्भव इति तदुक्तं युक्तं विशिष्टाया भ्रमासम्भवेऽपि खंडशस्तत्सम्भवात् / अन्ततः समुदाये शक्ततासम्बन्धेन तदर्थवत्त्वभ्रमस्याऽनुपपत्यभावाच्चेति दिक् / विशिष्टलक्षणावादिनां मतमुपन्यस्यति मूलम्-मीमांसकास्तु समुदाय एव लक्षणा। न च समुदायस्य शक्त्यभावा लक्षणानुपपत्तिः स्वबोध्यसम्बन्धो हि लक्षणा, अस्ति च वाक्येऽपि विशिष्टं बोध्यम् / अन्यथा का गतिर्गभीरायां नद्यां घोष इत्यादौ / न हि नदी पदं तीरलक्षकं गभीरायामित्यन्व * एतत्विहमध्यवर्तिपाठः खण्डितः प्रतिभाति /