________________ न्यायसिद्धान्तमंजरी शब्दखण्ड टोका स्यादिति-अवयवशक्तिहस्य तत्र शाब्दबोधाप्रयोजकत्वादिति भावः / न चावयवेति-अर्थवत्यदद्वयघटितत्वात् समासस्येति भावः / एतन्मतं दूषयति-तन्नेत्यादिउपपत्ताविति-राजसम्बन्धिपुरुषबोधोपपत्तावित्यर्थः / अत एव षष्ठ्यर्थान्तर्भावपक्ष उपेक्षितः, सम्बन्धप्रकारकबोधरयाननुभवाद्राजपुरुष इत्यतो राजसम्बन्ध्यभिन्नः पुरुष इत्यस्यैव शाब्धबोधस्यानुभवादिति भावः / न च कर्मधारयत्वापत्तिदूषणमनुघृतमेवेति वाच्यम् , समासपूर्वदशायां पदयोस्तुल्यार्थत्वाभावेनैव तत्र न तत्त्वमिति तदुद्धारात् / न च षष्ठ्याद्यर्थान्तर्भावेन पूर्वावस्थाकल्पनमेवायुक्तं विवरणविधाविरोधादित्यस्यानुद्धार एवेति वाच्यम् , यदीन्तर्भावेन समासे लक्षणा तद्घटितपूर्ववाक्यस्य सम्प्रदायसिद्धत्वात्ता र्यविवरणविधयाऽप्युपपत्तिरित्याशयात् / किंचिद्विशिष्टद्वितीयादिविभक्त्यर्थतावच्छेदकविशिष्टवतो यत्र नाभेदान्वयस्तत्र कर्मधारयोऽन्यत्र तत्पुरुषः / राजपुरुष इत्यादौ राजत्वादिविशिष्टषष्ट्यर्थसम्बन्धत्वविशिष्टं लक्ष्यतावच्छेदकमिति न कर्मधारयत्वं केवलसम्बन्धित्वेन लक्षणायां राजरूपेणैव च लक्षणायां कर्मधारयत्वमेवेत्यप्याहुः / यत्त्वत्र राजसम्बन्धिपदयोः षष्ठीसमासोत्तरं पुरुषशब्देन कर्मधारयस्वीकारातत्राव्याप्तिः सम्बन्धस्य षष्ठयर्थत्वाभ्युपगमादिति भूषणकारेण दूषणमुक्तं तत्तात्पर्यानवबोधविजृम्भितं, विभक्त्यर्थतावच्छेदकमित्यस्य विभक्तिप्रयोज्यान्वयबोधविषयतावच्छेदकमित्यर्थे दोषाभावादिति वयं पश्यामः / मानाभावादिति-अनन्यलभ्यस्यैव शब्दार्थत्वादिति भावः / यत्तु विशिष्टार्थबोधकत्वमेव समुदायस्य विशिष्टशक्तत्वम् / अत एव समासस्थले भिन्नव्युत्पत्तिरपि शक्तिसाधिकेति मतं, तदसत् ; एवं सति वाक्यमात्र एव वाक्यार्थबोधकत्वरूपशक्त्यापत्तेः; अन्यलभ्यत्वं च बाधकमुभयत्र तुल्यमिति दिक् / विरोधिनीति-शाब्दबोधासमर्था / समासे-तत्पुरुषसमासे / बहुव्रीहौ शक्तिमाशङ्कतेस्यादेतदिति तस्य-गोः / पदार्थकदेशत्वात्-गोपदलक्ष्यस्य गोस्वामिनो विशेषणत्वादित्यर्थः / एकदेशान्वयस्वीकारे च पशुर्न पशुरिति प्रयोगापत्तिः पशुपदार्थंकदेशे लोमलाङ्गूलादौ पशुभिन्नत्यस्याबाधितत्वादिति द्रष्टव्यम् अत एव-चित्रस्य पदार्थकत्वादेव। गवानन्वयापत्तेः-चित्रायां गवामेदान्वयस्याशक्यत्वादित्यर्थः / तत्पदस्य प्रक्रान्तबुद्धिविषयत्वेन चित्रगवान्यतरार्थत्वादुभयत्रैकरूपेणान्वयः संभवतीति बोध्यम् / विनिगन्तुमशक्यत्वादिति-न च 'प्रत्ययानामित्यादि' न्यायादुत्तरपद एव लक्षणेति वाच्यं कश्चिद्वयभिचारस्यापि दर्शनात्तन्न्यायस्यासार्वत्रिकत्वात् / केचित्-वैयाकरणाः। समाधत्ते-अत्रोच्यत इति / पदद्वय इति / न चान्यतरवैयर्थ्य परस्परतात्पर्यग्राहकत्वेन संभेदेन च तदवैयर्थ्यात् / एसेन चित्रा गौरिति शक्त्युपस्थाप्ययोरन्वयबोधोत्तरं चित्रपदेनोभाभ्यां वोपस्थितविशिष्टस्वार्थसम्बन्धी न्याः सि. म.६