________________ न्यायसिद्धान्तमंजरी शब्दखण्ड टीका बोधकत्वान्नानुपपत्तिरिति पदद्वयसमभिव्याहाररूपाकाङ्क्षाज्ञानादेस्तथाबोधकत्वकल्पनापेक्षया समुदायशक्तिग्रहस्यैव विशिष्टबोधव त्वकल्पने लाघवमिति पुनरत्र चिन्त्यमिति वदन्ति / कर्मधारयापत्तिरितिअभेदान्वितपदार्थद्वयकसमासत्वमेव कर्मधारयत्वमिति लक्षणोक्तेरिति भावः / समासेति-नन्वेतदेवासिद्धं पूर्वावस्थाया अपि समासार्थविवक्षानुसारेणैव कल्पनया भवद्री या समासवाक्ये तत्पुरुषकर्मधारययोर्बोधविशेषाभावेन षष्ठ्याद्यन्तर्भावेन पूर्वावस्थाकल्पनस्यैवासम्भवात् , वित्रियमाणसमानार्थ विवरणमिति व्युत्पत्तिभङ्गादित्यस्वरसादाह / मूलम्-अन्ये तु लुप्ता षष्ठयेवान्वयं बोधयन्ती सम्बन्धं बोधयति, षष्ठीलोपमजानतस्तु तदन्वयबोधः शक्तिभ्रमात् , राजपदलक्षणा वेति स्वीचक्रुः / ... वैयाकरणास्तु समासस्थले शब्दसमुदायस्य विशिष्टार्थे शक्तिरेव / न चैवं राजपदशनिमविदुषोऽपि राजपुरुषादिपदादन्वयप्रत्ययः स्यादितिवाच्यम् / समस्तशक्तिग्रहोधनुशासनात्, न चावयवशक्त्यग्रहेऽनुशासनग्रहः सम्भवतीति तच्छक्तिग्रहस्य समुदायशक्तिआहे हेतुत्वादित्याहुः तम, अवयवलक्षणयैवोपपत्तेः समुदायशक्तौ मानाभावात् / तदुक्तं- जहत्स्वार्थातु तत्रैव यत्र रूढि विरोधिनीति, तस्मादन्यथोपपत्तौ समासे शक्ति रयुक्तेति सक्षेपः ! स्यादेतत् मास्तु तत्पुरुषे शक्तिबहुव्रीहौ तु चित्रगुपदे चित्रगोस्वामिनि शक्तिरावश्यकी, नहि तत्र लक्षणया निर्वाहः / तथाहि गोपदं गोस्वामिलक्षकं चित्रपदं च चित्रस्वामिलक्षकं / नाद्यः, नहि चित्रत्वस्य गवान्वयः संभवति तस्य पदार्थैकदेशत्वात, अत एव नान्त्योऽपि गवान्वयानापत्तेः / अथ गोपदं चित्रगोस्वामिलक्षकं चित्रपदं तु तात्पर्यग्राहकमिति चेत् , न, चित्रपदं चित्रगोस्वामिलक्षकं गोपदं तु तात्पर्यग्राहकमिति विनिगन्तुमशक्यत्वात् , तस्माद्विनिगमकाभावात्समुदायशक्तिरेवेति चेत् , अत्रोच्यते-विनिगमकाभावादस्तु पदद्वये लक्षणा न तु समुदाये शक्तिरन्यलभ्यत्वात्। टीका-अन्ये विति-तथा च लुप्तां षष्ठी स्मृत्वा तदर्थमन्तभाव्य राजसम्बन्धवत्पुरुषान्वयस्य पदशक्त्यैव सम्भवान्न वृत्यन्तरकल्पनमिति भावः / समासशक्तिवादिनां मतमाहवैयाकरणास्त्यिति-राजपुरुष इत्यत्र राजपदस्य राजसम्बन्धलक्षणायां राजसम्बन्ध: पुरुष इपस्यापत्तेः; राजसम्बन्धिलक्षणायां च कर्मधारयत्वापत्तेर्लक्षणाया अयोगे शक्तेरावश्यक वमिति भावः / 1. 'केचित्' इत्यपि पाठः /