________________ [15 किञ्च गभीरायां नद्यामिति विभक्त्यन्तभागस्य न तीरे लक्षणा तदाधारताप्रत्ययानापत्तेः। नापि गभीरायां नदीतिभागस्य तस्याबोधकत्वाद् बोधकत्वे वा लक्ष्ये विभक्त्यर्थानन्वयापत्तेः प्रत्ययानां प्रकृतार्थान्वितबोधकत्वात् / न हि स भागः प्रकृतिर्येन तदर्थे विभक्त्यर्थान्वयः स्याद् गभीरायामिति सप्तम्यनापत्तेश्च / अथ विभक्त्यन्तस्यैव गभीरनदीतीराधारत्वलक्षकत्वमिति चेन्न / अशक्यत्वात्तस्मात् पदद्वय एव विनिगमकाभावाद्विशिष्टनदीतीरे लक्षणा। न चैकपदवैयर्थ्यपरस्य तात्पर्यग्राहकत्वादिति सम्प्रदायः / विस्तरस्त्वस्माकं 'मणिमरीचिनिबन्ध-तात्पर्यदीपक'योरनुसन्धेयः / उपकुम्भमर्धपिप्पलीत्यादावप्युत्तरपदलक्षणयैवोपपत्तौ न शक्तिरुपेयतेऽन्यलभ्यत्वात् / समाहारद्वन्द्वे पाणिपादमित्यादौ पाणिपदं पाणिप्रतियोगिकं पादपदं पादसमाहारं लक्षयति न पाणिपादसमाहारे शक्ति: समाहारश्च तुल्यवदेकक्रियान्वयित्वरूपं साहित्यं सेनावनादिवदपेक्षाबुद्धिविशेषविषयत्वं वा नन्वेवं पाणिपादं वादय इत्यत्रानन्वयः समाहारे वादनकर्मत्वाभावादिति चेत्परम्परया तत्र कर्मत्वान्वयादित्येके / समाहारोत्तरविभक्त्यर्थकर्मत्वादे: समाह्रियमाण एवान्वय: पदव्युत्पत्तिवैचित्र्यादित्यन्ये। पाणिपादं वादयेत्यत्र पाणिपादमात्रप्रतीतेनं समाहारे लक्षणा शक्तिर्वा / न चैवं द्विवचनापत्तिरसाधुत्वात् / इहेतरेतरसमाहारसंज्ञा तु नदीवृक्षादिवत्पारिभाषिक्येवेति तत्त्वम् / इतरेतरद्वन्द्वे तु धवखदिराविति स्वरूपद्वयप्रतीतेन्न लक्षणा शक्तिर्वा / मीमांसकास्तु अत्रापि धवखदिरसाहित्याश्रये लक्षणा तदाहुः साहित्ये द्विवचन'बहुवचने द्वन्द्वसमासो वेति साहित्यं च तुल्यवदेकक्रियान्वयित्वं, अत एव यत्कर्त्तव्यं तदनया सहेत्यत्र पत्न्या: सहभावमात्रं न तु साहित्यं यागादौ पत्न्या अनुमतिद्वाराऽन्वयेन तुल्यवदनन्वयादित्याहः नीलोत्पलमित्यादौ नीलाभेदस्यान्वयविधयैवात्र भासनोपपत्तेः कर्मधारये न शक्तिर्न वा लक्षणा अत एव तत्पुरुषात्कर्मधारयो लघीयान् तत्र हि पूर्व पदे सम्बन्धिलक्षणेत्युक्तम् / नञ्तत्पुरुषेप्यघट: पट इत्यत्र घटसम्बन्धि परं नड्पदं चान्योन्याभावे शक्तमेव। संसर्गाभाववाचकं नञ्पदं नान्योन्याभावशक्तमिति चेन्न / लाघवेन विनिगमनाविरहेण चाभावमात्र एव तच्छक्यत्वावधारणातु / / (मूलभागानुसारमेवायं भागोऽत्रावधि मुद्वितः)