________________ 37 न्यायसिद्धान्तमंजरी शब्दखण्ड टीका प्रवेशयेत्यादौ च तात्पर्यज्ञानविषये भोक्तृप्रवेशनादौ यष्टयाद्यन्वयानुपपत्तिरेवेत्याहुः / तत्र वदन्ति बीजमित्यस्य कल्पकमित्यर्थे द्वयमपि तथा वहिकल्पकधूमालोकवत्कल्पकस्याननुगमेऽप्यक्षतेः / / अथ लक्षणाज्ञानजन्यशाब्दयोधजनकमित्यर्थस्तदा तात्पर्यानुपपत्तिरेव तथा; तात्पर्यविषयापरपदार्थे मुख्यार्थान्वयानुपपत्त्यपेक्षया लघुत्वात् ; लक्षकपदस्य प्राथम्यात्तत्तात्पर्यग्रहप्राथम्यात् ; प्रवेशयेत्यम्य यत्र विशेषपरत्वं न गृहीतं तत्र मुख्यार्थान्वयानुपपत्तिज्ञानाभावाच्च / वस्तुतस्तात्पर्यानुवपत्तिरित्यस्यानुपपद्यमानतात्पर्यादित्यर्थस्तथा च लक्ष्यशाब्दबोधे लक्ष्यतापर्यज्ञानं हेतुरिति फलितं; तच्च'वश्यकम् , अन्यथा गङ्गापदेनोपस्थितानां स्वार्थसम्बन्धिनां मध्ये तीरस्यैवान्वयो नान्यस्येति न स्यात् ; निबिडद्रव्यमात्राधारेणैवानुपपत्तिनिवृत्तः प्रामाप्यस्य सम्भवात् , घोषपद एव च लक्षणा किं न स्यान्मकरादौ; तस्माल्लक्ष्यनियमार्थमपि लक्ष्यतात्पर्यज्ञानं हेतुः / मुख्यार्थायोग्यत्वज्ञानं च क्वचिलक्षणातार्यग्राहकतया मुख्यार्थबोधविघटकतया चोप्युज्यत इति / अत्र तात्पर्यज्ञानं लक्षणया शाब्दबोधजनकत्वावच्छिन्नतापर्यघटितं वाच्यं तेन न धूमोऽतीत्यादौ बहुम्नुमितिपरे मुख्यार्थ रे च कथंचिल्लक्षणाग्रहेऽप्यतिप्रसंग इति ध्येयम् / वृत्त्यन्तरमाक्षिपति मूलम्-ननु यद्येते एव वृत्ती कथं तर्हि राजपुरुष इत्यादौ षष्ठ्यर्थलाभः न हि राजपदं सम्बन्धे शक्तम् , अथ सम्बन्धोऽन्वय विधया भासते नीलोपट इत्यादावभेदवदिति चेत्, न, राजापुरुष इत्यादावपि तदापत्तेः / अथ नामाथयारभेदेनेवान्वयो न त्वन्यथा, तथैव व्युत्पत्तेः / राज्ञः पुरुष इत्यत्र न नामार्थयोरन्वयः किन्तु विभक्यर्थनामार्थयोरिति चेत् तर्हि राजपुरुष इत्यत्र कथं तयोस्तथान्वय इति स्वयमेव विभावय / अथ सम्बन्धे लक्षणवेतिचेत् , न, तथापि राजसम्बन्धः पुरुष इति तदन्वयः स्यादिति तद्दोषतादवस्थात् / अथ राजपुरुषात्मकसमुदाय एव राजसम्बन्धिपुरुषरूपलक्षणेति चेत् , न, शक्तिविरहे लक्षणाया अयोगात् / स्वशक्यसम्बन्धी हि लक्षणेत्युक्तम् / उच्यते राजपदं राजसम्बन्धिलक्षकं तथाचाभेदेनैव पदार्थद्वयान्वयः / न चैवं कर्मधारयापत्तिः समासपूर्वदशायां पदयोस्तुल्यार्थत्वाभावात् / ____टीका-नन्वित्यादिना, / तदापत्तरिति- स्वामित्वसम्बन्धेन राजान्वयस्य तत्र सम्भवादित्यर्थः / तथैव व्युत्पत्तेरिति-अभेदसंसर्गेण प्रातिपदिकार्थप्रकारकबोधे प्रातिपदिकजन्योपस्थितेः अभेदातिरिक्तसम्बन्धेन च प्रातिपदिकार्थप्रकारकबोधे विभक्तिजन्योपस्थितेहेतुत्वादिति