________________ 38 . न्यायसिद्धान्तमंजरा शब्दशण्ड टीका भावः / तयोः-राजपुरुषपदार्थयोः / तथा-भेदसम्बन्धेन / तद्दोषतादवस्थ्यादितिराजसम्बन्धस्यापि नामार्थत्वेन पुरुषेऽभेदेनैवान्वयसम्भवादित्यर्थः / अथेति-तथा च पदार्थतयैव राजसम्बन्धिपुरुषत्वेन बोधसम्भव इत्यर्थः / शक्तिविरह इति–राजपुरुषात्मकसमुदाय इत्यनेन योगः, षष्ठ्यन्तत्वेन विपरिणतस्य वा तस्यानुषङ्गः कार्यः / समाधत्ते उच्यत इति-राजपुरुष इत्यादौ लक्षणयैवोपपत्तेर्न वृत्त्यन्तरमास्थेयमिति गर्भार्थः / तथा चाभेदेनैवेति-तथान्वयबोधे विशेषणविशेष्यपदयोः विरुद्धविभक्तिराहित्यस्य तन्त्रत्वादिति भावः / अत्र राजपदोत्तरविभक्तेढुंतत्वात् स्मर्यमाणायाश्च विशेष्यपदोत्तरविभक्तिसमानत्वाभावात् , स्तोकं पचतीत्यादावभावाच्च समानविभक्तिमत्वं न नियामकमिति तत्परित्यागेन विरुद्धविभक्तिराहित्याश्रयणम् / अथ यत्किंचित्पदोत्तरविरुद्धविभक्तिकत्वाभावः समानविभक्तिकेऽप्यसम्भवी प्रकृतविशेषणपदोत्तरविरुद्धविभक्तिराहित्यं प्रकृतविशेष्यपदै वाच्यं, तच्च नीलोत्पलमित्यादौ प्रकृते वाऽसिद्धं विशेषणपदोत्तरविभक्तेरसिद्धः / न च विशेष्यपदोत्तरविभक्तिविरुद्धविभक्तिराहित्यं वाच्यं तच्चात्रापि प्रसिद्धमिति वाच्यम् स्तोकं पचतीत्यादावभावात्तत्र विशेष्यपदोत्तरं तिङ्विभक्तेः सत्वात् ; पश्यति जानातीत्यादितो दर्शनज्ञानयोरभेदाबोधाद्विभक्तिपदेन च सुविभक्तेर्ग्रहणात् / अथ प्रकृतविशेष्यप्रकृतविशेषणपदान्यतरोत्तरवचनविजातीयप्रथमान्यवचनशून्यत्वमपि विशेषणं देयम् / - इत्थं च विशेष्यदलं नीलस्य घट इत्यादावभेदान्वयबोधवारणायेति चेत् , न, नीलोत्पलरूपं राजपुरुषधनमित्यादौ तथाऽप्यसिद्धेः / किञ्चोत्पलं नीलेल्यादावसाधुत्वबुद्धयभावे शाब्दापत्तिरिति / अत्र वदन्ति-प्रकृतविशेष्यवाचकपदोत्तरवर्तिविजातीयप्रथमान्यवचनशून्यत्वे सति प्रकृतविशेष्यवाचकपदोत्तरवर्तिविजातीयविरुद्धविभक्तिशून्यत्वं विशेषणपदे वाच्यम् , उत्तरवर्ती चोभयत्र समभिव्याहृतक एव ग्राह्यः, नीलोत्पलरूपमित्यादौ च रूकारादिरेव तथा, सत्यन्तघटकं तद्विजातीयत्वं तवृत्येकवचनत्व-द्विवचनत्व-बहुवचनत्वाद्यन्यतमवत्वं, "वेदाः प्रमाणमि''त्यादेः संग्रहाय प्रथमान्येति / न चैवं घटः सुन्दरा इत्यपि स्यात् , “विशेषणं विशेष्यवदेकाधिकरणं प्रायेण" इत्यानुशासनाद्वेदाः प्रमाणं शतस्य पुरुषाणामित्यादौ क्वचिदेवासमानवचनविधानात् , प्रायेणेत्यनुशिष्टासमानवचनान्यस्य वाच्यत्वात् / विशेष्यदलघटकं तद्विजातीयत्वं च तदवृत्तिप्रथमात्वद्वितीयात्वादिमत्वमिति न दोषः / दधि शुक्लमित्यादावनुसन्धीयमाना प्रथमैव दधिपदोत्तरवर्तिनी न तु शुकारः / केवलनीलोत्पलपदस्य न बोधकत्वं निर्विभक्तेरसाधुत्वात् , तस्यापि बोधकत्वे तु स्वासमभिव्याहृतशब्दान्यः स्वोत्तरवर्ती ग्राह्यः; इत्थं च संयोगादिरेव तत्र तथा / न