________________ 16 न्यायसिद्धान्तमंजरी शब्दस्खण्ड टीका लघ्वर्थे शक्तरेव कल्पनात् , शक्यतावच्छेदकत्वस्य स्वरूपसम्बन्धविशेषस्य लध्वर्थनियतत्वात् ; लक्ष्यतावच्छेदकं त्वनियतमिति तस्यातथात्वात् / निरूढलक्षणायां धर्मविशेषनियमेऽपि लक्षणान्तरसाम्येन न तथात्वं; न च शक्यतावच्छेदके शक्तिः न च लक्ष्यतावच्छेदकेऽपि लक्षणासिद्धिस्तीरनीरसंयोगरूपायास्तस्यास्तीरत्वादावसंभावात् ; प्रमेयत्वाद्युपलक्षिते शक्तिग्रहेऽपि शब्दासंभवेन विशिष्टे शक्तिमहस्य हेतुत्वेन विशिष्टे शक्तिस्वीकारात् , लक्षणास्थले तु तदभावात् , अत एव समानाधिकरण्येन तीरत्वे लक्षणाग्रहेऽपि सति तात्पर्ये शाब्दबोध इष्ट एव प्रघाइत्वेन प्रवाहश्शक्य इति च; शुक्लादिगुणे न शुक्लादिनिरूढलक्षणावानिति व्यवहारोऽस्तीति चेत् अस्तु तद्धर्म न निरूढलक्षणावानित्यस्य तद्धर्मविशिष्टेऽनादिप्रयोगनियतप्रयोजनशून्यलक्षणा यानित्यर्थात् , नियतान्तेन निषिद्धलक्षणायाः शून्यान्तेनायुघृतमिति प्रयोजनवत्या व्युदासः / तद्धर्मावच्छिन्ननिरूढलक्षणावानिति तु नार्थः शुक्लादिगुणाश्रयरूपायास्तस्याः शुक्लाधनवच्छेद्यत्वात् / इयं च कोशव्याकरणवृद्धप्रयोगसिद्धा क्वचिन्मुख्यप्रयोगस्यापवादिकापि धूमादित्यादौ धूमज्ञानादित्यादेः, वृक्षं छिनत्तीत्यादौ वृक्षावयवं छिनत्तीत्यादेरयोगात् ; शक्तितुल्यत्वं च तस्याः पर्यायत्वसम्पादकतयेति दिक् / गोपदादेः स्वपरत्वे लक्षणैव न शक्ति; शक्तेः स्वविषय एव पदसम्बन्धत्वान्नतु स्वाश्रयेऽन्यथा शक्त्याश्रयत्वेनोपस्थितस्येश्वरस्य सर्वत्र शाब्दप्रसंगात् , न च श्रोत्रप्रत्यक्षोपस्थितस्वपरत्वमेव पदानामिति युक्तं शब्दवृत्त्यनुपस्थिते तत्र कर्मत्वाद्यनन्ययप्रसंगात् अन्यथा कथंचित् स्मृतस्य तीरादेरन्वयसम्भवे लक्षणोच्छेदप्रसङ्गात् / गामुच्चारयेत्यादौ अविकृतस्य गोपदस्यैकं पदमुच्चारयेत्यादौ च पदान्तरस्योच्चारणकर्मत्वाभावप्रसङ्गात् / गामिति विकृतस्यैकमित्यादेरेव च प्रत्यक्षोपस्थितत्वात् / एतेन पदानामौत्सर्गिकमर्थपरत्वं तदभावे स्वपरत्वे तत्र न वृत्त्यपेक्षाऽभेदादेव स्वपरसंभवादित्यपास्तं, जबगडदशमाइत्यादौ च 'द्वन्द्वात्परमिति' न्यायेन प्रत्येकवर्णानामेव द्वितीयार्थेऽन्वयेन तेषां स्वस्वार्थे शक्तिसत्त्वात् / स्वस्मिन् लक्षणा संभवति तदग्रहे शक्तिभ्रमात् स्वतः स्वस्योपस्थितिः निरर्थकस्य स्वस्मिन् शक्तिरेव वृत्त्यन्तरं विनोपस्थितेः शक्तिसाध्यत्वादित्यन्ये / निरर्थकपदत्वापेक्षया लाघवात्पदत्वमेव स्वशक्तत्वावच्छेदकम् / " सर्वे सर्वशक्ता " इति पक्षेऽपि निःक्षेपनियततात्पर्यात्प्रयोगनियमोऽनियतप्रयोगे च लक्षणाव्यवहारः प्रकरणादिकं च शुद्धतात्पर्यनियामकम् तदुक्तं-प्रस्तुतव्याकरणादप्रस्तुतापाकरणाच्च निःक्षेपः फलवानिति 'पुनराहताः / - लक्षणांबीजं च तात्पर्यानुपपत्तिरेव द्रष्टव्यं नत्वन्वयानुपपत्तिः 'यष्टीः प्रवेशयेत्याद्यजह. स्वार्थायां तदभावादिति सम्प्रदायः, मणिकृतस्तु मुख्यान्वयायोन्यत्त्वज्ञानेनैव लक्षणाकल्पनात् 'यष्टी. 1. जनाः इत्यर्थः /