________________ न्यायसिद्धान्तमंजरी शब्दखण्ड टीका धरमञ्चस्थपुरुषयोरविनाभावोऽस्त्येव / एवं 'छत्रिणो यान्ति' 'काकेभ्यो दधि रक्ष्यतामित्यत्राजहत्स्वार्थायां छत्रिणस्तत्समूहान्तर्गतत्वेनाछत्रिणां गमनसमये काकस्य 'कुर्कुरादिनादध्युपघातकत्वेनोपस्थितिकाले सोऽस्ति / यदा तूपघातकत्वेन काकमात्रमुपस्थित न तदा कुर्कुरादिलक्षणा नास्ति दध्युपघातकत्वेनातर्किताक्षणोपदेशानौचित्यादिति सम्प्रदायः। मणिकृतस्तु शक्यसम्बन्धमात्रमेव लक्षणा तात्पर्यज्ञानापेक्षणात् क्वाऽप्यनतिप्रसङ्गात् / गङ्गाऽविनाभूत-नौका-वालुकाद्यबोधस्य त्वयापि तात्पर्यविरहेणैवोपपाद्यत्वादित्याहुः अस्ति हीत्यादि-लक्ष्ये लक्षणयोजना सुगमैव / एतभेदायाह-सा चेति-सादृश्यतदन्यशक्यसम्बन्धमेदारलक्षणाया भेदद्वयमेवेत्यर्थः / लशितलक्षणाप्येतभेद एव किंचिल्लक्ष्यघटितशक्यसम्बन्धस्यैव तत्त्वात् , यथा द्विरेफपदादेर्भमरादौ द्वौ रेफौ यत्रेति व्युत्पत्त्या द्विरेफपदाफपदार्थशक्यरेफद्वयघटितपदशक्यत्वरूपसम्बन्धाभ्रमरबर्बरपद शक्ययोभेमर-वर्बरसंज्ञयोरुपस्थितेः // न चोक्तव्युत्पत्त्या द्विरेफपदोपस्थितभ्रमरबर्बरादिपदात् शक्त्यैव भृङ्गावृक्षयोरुपस्थितिरस्त्विति वाच्यम् / एवं सति द्विरेफमानयेत्यत्र भृङ्गादौ कर्मत्वानन्वयप्रसङ्गात्तस्य प्रकृत्यर्थाभावात् / यत्रचन्दनादिपदस्य स्वगांदौ लक्ष्यीभूतार्थघटितपरम्परासम्बन्धस्य लक्षितलक्षणात्वं तत्रोक्तरीत्यभावाच्च, लक्ष्यार्थादुपस्थितशाब्देऽपि प्रवेश इति शक्यस्य परम्परासम्बन्धस्यैव लक्षितलक्षणात्वं युक्तमिति / नव्यास्तु-द्विरेफपदादुक्तसम्बन्धेन भ्रमरत्वबर्बरत्यप्रसरत्वाद्यनियतोपस्थितौ भ्रमरत्वपर्यायत्वानुपपत्तिः / रेफपदस्य रेफघटितपदसम्बन्धित्वेन लक्षितलक्षणया रेफे एकदेशे द्विपदार्थस्य भेदेनान्वयो द्विपदस्य तात्पर्यग्राहकत्वात् / उक्तलक्षणयैव वा द्विरेफसम्बन्धी वा लक्ष्यः स च योगार्थ एव यौगिकव्युत्पत्तिप्रयोज्यत्वात्सचातिप्रसक्त इति भ्रमरत्वविशिष्टे रूढिः पङ्कजलम्बकर्णादिपदवदित्याहुः / निरूढलक्षणाऽपि तदन्यभेद एव, सा च प्रयोजनशून्यत्वेन; प्रयोजनवत्वान्न भिद्यते कुशल इत्यादौ कुशादानकर्तृत्वरूपमुख्यार्थबाधे विवेचकत्वगुणयोगेन तस्वीकारात् / शुक्लादिविशिष्टोऽपि निरूढलक्षणैव / न च मत्सरपदम्य द्वेषतद्वतोरिख शुक्लतद्विशिष्टयोरपि शत्तिरेवोचिता; मत्सरपदस्यापि तद्वति निरूढलक्षणाया एव स्वीकारात् उभयत्र कोशव्याकरणादिसिद्धत्वेऽपि गुर्वर्थे. लक्षणाया 1. अन्यत्र कुक्कुटः शब्दो लभ्यते / 2. अविनाभाव इत्यर्थः / 3. अन्यत्र बर्बुरः /