________________ 34 न्यायसिद्धान्तमंजरी शब्दखण्ड टीका द्रष्टव्यम् / प्रभाकर इति-प्रभाकर शब्दवाच्य इति गृहीतो-भ्रमविषयीकृतः। वस्तुतः प्रतारक शब्दवाच्ये तत्र वर्णव्यत्यासलिपिसादृश्यदोषाभ्यां प्रभाकरशब्दवाच्यत्वभ्रम एव लोकानामिति भावः / मूलम्-ननु यदि शक्तिग्रहः सहकारि तदा गङ्गापदात्तीरप्रत्ययो न स्यादिति वेत् , न, शक्तिर्हि न तत्वेन प्रयोजिका किन्तु वृत्तित्वेन, अस्ति च तीरे गङ्गापदस्यापिवृत्तिलक्षणैव / अथ केयं लक्षणा ? शक्यादशक्योपस्थितिलक्षणेत्येके, तन्न, उपस्थिति हेतु हि वृत्तिने तु सेव / अशक्ये तात्पर्य लक्षणेत्यन्ये तन्न, अन्वये तात्पर्यस्य लक्षणात्वापत्तेः, किच. तात्पर्यनिर्वाहिका हि वृत्तिनं तु तदात्मिकैव शक्तेरपि तत्वापत्तेः / उच्यते स्वशक्यसम्बन्धो लक्षणा, अस्ति हि गङ्गापदशक्यः प्रवाहविशेषः तत्सम्बन्धस्तीरे इति / सा च लक्षणा द्विविधा गौणी शुद्धा च, सादृश्यात्मकः शक्यसम्बन्धो गोणी, यथा गौर्षाहीक इति, तदन्या शुद्धा यथा आयुघृतमिति / लक्षणानिरूपणार्थ भूमिमारचयति टीका-ननु यदीति, वृत्तित्वेनेति-शक्तिलक्षणान्यतरत्वेनेत्यर्थः / शक्यादिति-शक्यपदं शक्यसम्बन्धज्ञानपरं पञ्चम्यों हेतुत्वं शक्यसम्बन्धज्ञानजन्येत्यर्थः / केचिदिति-प्राञ्चः, तन्मते हि गङ्गापदात् स्मृतशक्येऽन्वयानुपपत्तिज्ञाने पुनर्गङ्गापदाच्छक्यस्मृतिः स्मृतशक्यतः स्वसम्बन्धेन तीरस्मृतिस्ततः शक्यस्मारिततीरस्येतरपदादेवान्वयबोध इत्यभ्युपगमात् / अशक्य इतिस्वार्थसम्बन्धिनि तात्पर्य लक्षणेत्यन्य इत्यर्थः / न तु तदात्मिकैव-नोपस्थित्यात्मिकैव शक्तेरपीतिमुख्येऽपि तात्पर्यस्यावर्जनीयत्वादिति भावः / ___ यदि च निर्वाहक सम्बन्धमपश्यत आप्तस्य मुख्ये तात्पर्यमेव न सम्भवतीति शक्तेरावश्यकत्वं तदा लक्षणासम्बन्धं विना लक्ष्येऽपि तात्पर्य न संभवतीति साऽप्यवश्यमाश्रयणीयेति तुल्यम् / किंच लक्ष्यस्मृतये लक्षणा स्वीकार्या स्मृतिश्च स्वसंवन्धज्ञानादेव संभवतीत्यधिकप्रवेशवैयर्थ्य सम्बन्धिज्ञानस्यैव स्मारकत्वात् , लक्ष्यस्मृतौ तत्र तात्पर्यग्रहस्तात्पर्यग्रहे लक्ष्यस्मृतिरित्यन्योन्याश्रयाच्च / किंच तात्पर्यमात्रस्य वृत्तित्वे सर्वस्य सर्वत्र प्रयोगापत्तिरिति न किंचिदेतत् / सिद्धान्ते शक्यसम्बन्धो लक्षणेति-अत्र शक्यसम्बन्धोऽविनाभाव एव, गङ्गायविनाभूततीरादेरेव गङ्गादिपदात्प्रतीतेः / 'यष्टीः प्रवेशय' 'मञ्चाः कोशन्ती'त्यत्र प्रवेशनकोशनसमये यष्टि