________________ 33 न्यायसिद्धान्तमंजरी शब्दस्खण्ड टीका किं चैवमर्थवादरूपायां श्रुतिस्मृतीतिहासपुराणदीनामप्रामाण्यं स्यात् / तथा च सुष्टुपद सितं मित्रैः प्रसिद्ध एव लोकेस्मिन् बुद्धबन्धुः प्रभाकर इति / प्रतारकः कश्चिद्वर्णव्यत्यासलिपिसादृश्याभ्यां प्रभाकर इति गृहीतो लोकैरिति युक्तमुत्पश्यामः // - टोका-कार्यताविशिष्टज्ञानमिति-घटानयनादिगोचरप्रवृत्त्या घटानयनादिकार्यताविशिष्टज्ञानोपस्थितावपि कार्यताविशिष्टज्ञानत्वावच्छिन्नं प्रत्येव शब्दत्वेन हेतुत्वग्रहात् तधूमत्वादिनोपस्थितेऽपि धूमत्वावच्छिन्नं प्रति वह्नित्वावच्छिन्नस्येवेति भावः / आयव्युत्पत्तिविरोधादिति- प्रथमगृहीतकार्यान्वितशब्दत्वावच्छिन्नजनकतोपजीवनविरोधादित्यर्थः / मूकमेव-अबोधकमेव / कार्यतावाचकपदसमभिव्याहृतस्यैव वाक्यस्य बोधकत्वादिति भावः / कार्यान्वित इति-कार्यान्वयित्वं च साक्षात्परम्परासाधारणकार्यान्वयित्वरूपं द्रष्टव्यम् / कथमिति-घटादिपदात् घटत्वादेरेव स्मृतिर्न तु कार्यत्वस्य किन्तु कार्यत्ववाचितिङा (लिङा ! )दिपदादेव तस्मृतिर्भवितुमर्हतीति लिङादिपदाभावे कार्यत्वास्मृतौ कथं तच्छाब्दबोधः पदजन्यपदार्थोपस्थितेरपि शाब्दहेतुत्वादिति भावः। तदाह-कार्यत्वान्वयेत्यादि-नार्थवादस्य प्रामाण्यमिति / यत्र भारतादौ फलश्रुतिरस्ति तत्रार्थवादकल्पितविधिशेषतया प्रवृत्तिपरत्वात्परम्परया कार्यान्वितस्वार्थबोधकत्वरूपं प्रामाण्यमाद्रियतां स्वरूपाख्यानपराणां तु काव्यनाटकादीनां न कथमपि प्रामाण्यं किन्त्वसंसर्गाग्रमात्रकरत्वमिति भावः / लाघवादिति-कार्यत्वाविषयकशाब्दत्वकार्यताविषयकघटादिशाब्द त्वापेक्षया शाब्दत्वघटादिशाब्दत्वादेर्जन्यतावच्छेदकत्वे लाघवादित्यर्थः / लाघवसहायतयेति• * प्रथमप्रवृत्तत्वं चरमप्रवृत्तत्वं वा कल्पनाया न बलवत्त्वप्रयोजकं किन्तु लाघवतर्कसहायत्वेनैवेति भावः / ' न च कार्यताज्ञानत्वावच्छिन्नजन्यत्वग्रहस्योपजीव्यस्य विरोधस्तर्हि (?) घटानयनकार्यताज्ञानत्वावच्छिन्नस्योपजीव्यस्यानुरोधेन तदवच्छिन्नं प्रत्येव शब्दत्वेन जनकत्वप्रसंगात् ; नायमुपजीव्यः सर्वेषामसंभवात् केनचित्पटानयनकार्यताज्ञानत्वावच्छिन्नं प्रत्येव तद्ग्रहात् / सर्वेषां यादृशग्रहस्तादृशस्थैवोपजीव्यत्वादिति चेत् तुल्यमितरत्रापि / शुद्धकार्यताविशिष्टज्ञानत्वावच्छिन्नोपस्थितेरप्यसार्वत्रिकत्वात् / न च तदवच्छेदेन जन्यत्वग्रहोऽपि सार्थतया तत्सामानाधिकरण्येन जन्यत्वग्रहादपि व्युत्पत्तेः / न च विधिना व्यतिरिक्तस्थलीयशाब्दबोधतत्कार्यकारणभावादिकल्पने गौवं फलमुखगौरवस्यादोषत्वात् / आकाङ्क्षादिसामग्रीसत्त्वे तत्प्रामाण्यस्य दुरित्वादिति दिग् / गतमिति-विधिस्थले शाब्दयामीत्यनुभवस्य जागरूकत्वान्न गतमिति चेदर्थवादस्थलेऽपि नायमसंभवीति 1. टीकाकार मतेनेत्यत्र 'केचित्' इति पाठः / न्या. सि. मं. 5