________________ न्यायसिद्धान्तमजरोशब्दखण्डटीका कथमभ्युपलभ्यत इति चेत्-न, घटाद्यन्वयप्रतियोग्युपस्थापकपदज्ञानत्वाद्यवच्छिन्नस्य घटादिवृत्तपदज्ञानत्वाद्यवच्छिन्नस्य वा घटादिशाब्दत्वेनैव जन्यतावच्छेदो नत्वन्वितघटादिशाब्दत्वावच्छेदेनेत्येवं मत विशेषात् / नन्वन्वये तात्पर्यात्त दनुपपत्त्या तत्र शक्त्यभावे लक्षणावश्यकीति चेत् न, वृत्ति विनाऽपि तात्पर्यनिर्वाहात् , यथा धूमोऽस्तीत्यत्र धूमपदस्य वह्निपरत्वेऽपि न वह्नौ लक्षणा शक्त्योपस्थिताद धूमादनुमानेन वह्निज्ञानसंभवात् , यथा वा 'गच्छगच्छसि'इत्यादौ मा गा इति तात्पयेऽपि न लक्षणा, जन्मनो मरणपूर्वत्वान्यथानुपपत्त्यैव निर्वाहादिति दिग् // प्राभाकरास्तु कार्यतान्वितपदानां शक्तिस्तथा हि प्रयोजकवाक्यश्रवणानन्तरं प्रयोज्यस्य प्रवृत्तिमुपलभमानो बालस्तत्प्रयोजकतया कार्यताविशिष्टज्ञानमनुमिनोति स्वप्रवृत्तौ तेन कार्यत्वविशिष्टज्ञानस्यहेतुत्वावधारणादतस्तद्धत्वाकाक्षायामुपस्थितत्वाच्छब्दमेव तथाऽवधारयति ततस्तन्निर्वाहिकां शक्ति कार्यतान्विते शब्दत्वावच्छेदेन कल्पयति / तदनुचावापोद्वापाभ्यां घटादिपदे शक्तिं गृह्णानः प्रथमकल्पनानुरोधाकार्यतान्विते घटादौ शक्ति कल्पयति न तु केवलघटादावाद्यव्युत्पत्तिविरोधात् / इत्यञ्च यत्र कार्यतावाचकपदसमभिव्याहारो नास्ति तद्वाक्यमर्थवादरूपमूलकमेव / व्यवहारस्त्वसंसगांग्रहात् / ननु सर्वेषां पदानां कार्यतान्वितवाचकत्वात्तद्वाचकपदसमभिव्याहारो. नास्तीत्यसङ्गतमसङ्गतञ्चार्थवादस्याप्रामाण्यमिति / अत्रोच्यते-द्विविधा हि पदशक्तिःअनुभाविका स्मारिका च, तत्रानुभाविका कार्यतान्विते स्मारिका च जातौ तथा च घटादिपदं घटपदात्कार्यत्वानुपस्थितौ कथं तदन्विनबोधं जनयेत् कार्यत्वान्वयबोधे तदुपस्थितेरपि हेतुत्वादिति नार्थवादस्य प्रामाण्यमित्युचुस्तन्न / आवापोद्वापाभ्यां लाघवाद् घटादिमात्र एव शक्तिग्रहो न कार्यतान्वयेप्यन्यलभ्यत्वात् / प्रथममन्यलभ्यत्वं बालस्य नोपस्थितमिति चेत् प्रथमं तर्हि कार्यतान्वयेऽपि शक्तिग्रहोस्तु यदा च तदुपस्थितं तदा घटमात्रशक्तिग्रहोऽस्तु सा बाध्यतां गौरवात् / अथैवं चरमप्रवृत्ता घटमात्रशक्तिकल्पना कथं प्रथमप्रवृत्तां बलवती कार्यतान्वितशक्तिकल्पनां बाधितुमिष्टेति चेत् प्रथमकल्पनाय वलवत्वावासिद्धेः न हि प्रथमप्रवृत्तमेव बलवच्चन्द्रतारकाधल्पनाया प्रथमप्रतीतायाः शास्त्रजतन्महत्त्वप्रतीत्या बाधनापत्तेः। चरमकल्पनाया लाधवसहायतया बलवत्वाच्च / किंच एवं काव्यादिभ्योऽनुभवसिद्धोऽन्वयानुभवो न स्यात् / न च संसर्गाग्रहमात्रं तत्र न तु संसर्गानुभव इति वाच्यम् / घटमानयेत्यत्रापि तदापत्तेः तथा च गतं शब्दप्रामाण्यप्रत्याशयापि /