________________ न्यायसिद्धान्तमञ्जरीशब्दखण्डटीका अयमिह परमार्थः अन्वयमात्रे शक्तिस्वीकारेऽप्यन्वयविशेषलाभार्थमाकाङ्क्षा योग्यतातात्पर्यादेरपेक्षावश्यकत्वे तत एवान्वयलाभे तस्य शब्दार्थत्वमनुचितं तदुक्तम्-'अनन्यलभ्यो हि शब्दार्थ' इति / अथानन्यलभ्यत्वनिश्चयः पदाथाशेऽपि दुर्घटः, इतोऽन्यस्माल्लभ्यमिति निश्चयस्तु न प्रकृतेऽपि शिष्यागृहीतत्वेन तदयोगादिति चेत्, न, अन्यलभ्यत्वनिश्चयाभावत्यैव प्रयोजकत्वात् तदभावनिश्चयस्यातत्त्वात् / बाधकानिश्चय एव ह्युत्सर्गप्रवृत्तौ तन्त्रम् / तदुक्तं-“बाधकापोधोनियम उत्सर्ग" इति / एकत्र लाघवज्ञानमपि परत्र बाधकनिश्चयोपयोगिना चास्य (?) तदान्यलभ्यत्वनिश्चयोऽपि नास्तीति वाच्यं तदातथाशक्तिग्रहेऽपि विशेषदर्शनेन तद्बाधात् / यत्र पूर्वकल्पनायां न बाधकसंभवस्तस्या एव . प्रामाणिकत्वादिति सम्प्रदायविदः तच्चिन्त्यम्; बाधकानिश्चये प्रमाणग्राह्यत्वस्यौत्सर्गिकत्वेऽप्रामाण्यादेरप्यौत्सर्गिकत्वापत्तेः / तस्माद् बाधकापोह्य इत्यादेबर्बाधकामावगर्भहेतुनिष्ठनियम उत्सर्गस्तत्प्रमालभ्योऽर्थः औत्सर्गिक इत्यर्थः / यथा 'इदं ज्ञानं प्रमा बाधकाभावे सति ज्ञानत्वात्' 'घटो घटपदवाच्यो बाधकाभावे सति घटपदबोध्यत्वादि'त्यादि / आये बाधकं प्रमात्वाभावप्रमापर्क द्वितीयेऽन्यलभ्यत्वादि / न चाप्रामाण्यादेरप्यौत्सर्गिकत्वापत्तिस्तदवस्थाप्रमात्वादिना सन्दिग्धे शीघ्रोपस्थितिकस्य प्रमात्वस्यैव सिद्धेः, नत्वप्रामाण्यस्य, विलम्बोपस्थितिकत्वस्य तत् सिद्धर्बाधकस्य सत्त्वात् , तदुक्तं मणिकृता 'अप्रमाऽपि प्रमेत्येव गृह्यत' इति प्रमेतीत्येव व्याख्यातं तान्त्रिकैः; तस्यां रजतत्वादिना रङ्गादेर्ग्रहेण वास्तवप्रमात्वाभावात् , इत्थं सोत्सर्गप्रवृत्ती हेतुविशेषणबाधकामावस्य तर्कादिना निश्चय भावश्यकः / वस्तुत उत्सर्गप्रवृत्तौ लाघवज्ञानसहकृतं नियममात्रज्ञानं तन्त्रम् , 'इदं ज्ञानं प्रमावभ्रमत्वान्यतरवत् ज्ञानत्वाद' इत्यादितो लाघवात् प्रमात्वादिसिद्धेः / घटादौ घटपदादिशक्तिसिद्धिरपि . लाघवात्, असम्बद्धबोधक वेऽतिप्रसंगात् / प्रत्यक्षादौ सम्बद्धबोधकत्वस्य क्लुप्ततया शब्देऽपि तसिद्धेः / अनन्यलभ्यत्वमपि लाघवोपपादकं प्रकारान्तरेण लामे शक्तिकल्पनानौचित्यात् / क्षित्यादिकतुरेकत्वसिद्धिरपि लाघवात् , न त्वनेकत्वकल्पनाप्रयुक्तगौरवनिश्चयाभावमात्राल्लाघवप्रतिसन्धानाभावेऽपि तत् सिद्धयापत्तेः / बाधकापोह्य इत्यस्यापि बाधकनिश्चयप्रतिरुद्धस्वकार्यक इत्यर्थः / बाधकनिश्चये लाघवसहस्रज्ञानस्याकिंचित्करत्वात् , नहि प्रत्यक्षसिद्धभेदकवस्तूनां लाघवादैक्यसंभवः, अपवादकसत्त्वे उत्सर्गप्रवृत्तिरिति दिक् / शब्देन मनसा च कर्तुरनेकत्वादिग्रहे गौरवनिश्चयो वाच्यत्वग्रहे चान्यलभ्यत्वग्रहो विरोधीत्यप्याहुः / न च विषयतया शब्दत्वावच्छिन्नं प्रति तयावृत्तिज्ञानजन्यपदार्थोपस्थितित्वेन हेतुत्वादन्वये वृत्तिरावश्यकीति वाच्यं सामान्यलक्षणाविरहेण तथा हेतुत्वस्य वक्तुमशक्यत्वाद्विशेषरूपेणान्वयबोधस्य पदात्तवाप्यसंमतत्वाच्च / अथान्वितस्यैव शाब्दबोध इति नैयायिकैरप्यभ्युपगमात् अन्वितानुभावकता शक्तिः शब्दे