________________ न्यायसिद्धान्तमञ्जरीशब्दबाउटीका पाठकादयस्तु यौगिका एव योगस्यानतिप्रसक्तत्वात् गोपदं गवि, वेदेऽहीनपदं कर्मविशेषे धेनुपदं गोत्वविशिष्टे धानकर्मणि रूढ़मेव न तु योगरूढम् उणादिसूत्रस्य कथंचिद्वयुत्पादनपर. वानप्रत्ययस्यार्थाननुगमाच्च / अहोनपदस्य योगरूढत्वे च द्वादशोपसदोऽहोनस्येत्यत्र न हीनो गौरहीन इति योगादर्शतुल्याङ्गगोर्न द्वादशोपसयागत्वं किन्तु रूढ्याऽहीनपदाच्छीघ्रोपस्थितस्य विशेषस्यैवेति सिद्धान्तो व्याहन्येत / अह्निभवोऽहीन इति व्युत्पत्याहः समाप्यत्वरूपयोगाथस्य रूढयर्थेऽन्वयेऽपि योग्यतादिज्ञानेन विलम्बात् / अत्र प्राभाकरा धेनुपदस्य गोत्वं न शक्यं किन्तूपलक्षणीभूय शक्यानुगमकं गोत्ववत्सु सुधानकर्मसु धेनुपदं गोत्वांशं तु न स्पृशति तस्य शक्तिमहाहितसंस्कारोपस्थितस्यैव शब्दविषयत्वात् / अत एव पङ्कजपदादेः पद्मत्वादिवन्न प्रयोगोपाधित्वं तस्य शाब्दबोधाविषयस्यैव प्रयोगमात्रनियामकत्वात् / न च लाघवाद्गोत्वं शक्यं धानकर्मत्वं शक्त्युपाधिः, गोत्वजातेः शक्यत्वे तुल्यवित्ति वेद्यतयाव्यक्तिलाभसंभवे व्यक्तेरशक्यत्वापत्तेः / तथा च धानकर्मत्वस्य गोत्वनिष्ठशक्त्युपाधित्वासंभवे धानकर्मत्वभानं न स्यात् वृषभादिबोधश्च स्यादिति धानकर्मत्वरूपोपाधिविशिष्टे धर्मिण्येव शक्तिः / धानकर्मत्वमतिप्रसक्तमपि शक्यतावच्छेदकम् / अस्तु वा धानकर्मत्वानामपि नानात्वात्तेष्वेव विशेषणविधया शक्येषु गोत्वं सामानाधिकरण्येनानुगमकमित्याहुः / तत्र गोत्वे शक्त्यभावे बुद्धिविषयतावच्छेदकत्वादिवच्छब्दविषयतानापत्तेः तद्धर्मविशिष्टे शक्तिग्रहस्यैव तत्र तन्त्रत्वात्, अन्यथा पशुकारणादिपदानामपि विशिष्टे शक्त्यभावप्रसंगादिति वदन्ति / निष्कृष्टग्रन्थकृन्मते तु गोपदस्यापि गोत्वेऽशक्तेः पङ्कजादिपमानां न पद्मत्वे शक्तिः किन्तु डप्रत्ययस्यैव पभे लक्षणा; धेनुपदस्य तु धानकर्मणि शक्तिोत्वधानकर्मत्वयोस्त्वशक्ययोरपि स्वरूपसम्बन्धरूप विशेषरूपं शक्यत्वावच्छेदकत्वमित्याधूहनीयम् / मूळम्--न चाशक्यबोधने घटमपि बोधयेदिति वाच्यम् गोशक्तं हि पदं गवान्वयबोधजनकं न च घटो गवान्वयो येनातिप्रसंगः स्यात् टीका-अथ प्रकृतं प्रस्तुमः-अशक्यबोधन इति-अशक्यान्वयबोधन इत्यर्थः गोशक्तं इति-तथा च गोशक्तपदज्ञानत्वेन कारणता गोत्वेन रूपेण गवान्वयबुद्धित्वेन कार्यतेति भावः / मूलम्--भट्टास्तु अन्वयविशिष्टेशक्तिग्रहादन्वयेऽपि शक्तिरेवेत्याहुस्तन्न अन्वयस्यान्यलभ्यत्वात् / अनन्यलभ्यस्य च शब्दार्थत्वात् / अन्यथा लक्षणोच्छेदापत्तिः। टीका-भट्टास्त्विति-अन्वयेऽपीत्यपिना-जातिसमुच्चयः व्यक्तिस्त्वपत्तिरूपाक्षेपलभ्येति ध्येयम् / अन्यलभ्यत्वात्-आकाङ्क्षायोग्यताबललभ्यत्वात् / तथैवोक्तरीत्या कार्यकारणभावोपदर्शनादिति मन्तव्यं शब्दार्थत्वात् शब्दशक्यत्वात् / अन्यथा-प्रकारान्तरेणोपस्थितियोग्येऽपि शक्तिस्वीकारे, लक्षणेति-लक्ष्यार्थेऽपि शक्तिस्वीकारप्रसंगादित्यर्थः /